________________
वज्रप्रबन्धः
।
श्रीभद्रगुप्तसूरिश्च तमध्याप्य पुनर्गुरोः। प्राहिणोत्संनिधौ तस्यानुज्ञायै समयस्य सः ॥१३१॥ वज्रप्राग्जन्मसुहृदो ज्ञानाद्विज्ञाय ते सुराः। तस्याचार्यप्रतिष्ठायां चक्रुरुत्सवमद्भुतम् ॥ १३२ ॥ सर्वानुयोगानुज्ञां च प्रददुर्गुरवः शुभे। लग्ने सर्वाहतां तेजस्तत्त्वं तत्र न्यधुर्मुदा ॥ १३३ ॥ गुरौ प्रायाद्दिवं प्राप्ते वज्रस्वामिप्रभुर्ययो। पुरं पाटलिपुत्राख्यमुद्याने समवासरत् ॥ १३४ ॥ अन्यदा स कुरूपः सन् धर्म व्याख्यानयद्विभुः। गुणानुरूपं नो रूपमिति तत्र जनोऽवदत् ॥ १३५॥ अन्येाश्चारुरूपेण धर्माख्याने कृते सति । पुरक्षोभभयात्सूरिः कुरूपोऽभूजनोऽब्रवीत् ॥ १३६॥ प्रागेव तद्गुणग्रामगानात्साध्वीभ्य आदृता। धनस्य श्रेष्ठिनः कन्या रुक्मिण्यत्रान्वरज्यता(त) ॥ १३७ ॥ बभाषे जनकं स्वीयं सत्यं मद्भाषितं शृणु। श्रीमद्वज्राय मां यच्छ शरणं मेऽन्यथानलः ॥ १३८ ॥ तदाग्रहात्ततः कोटिशतसंख्यधनैर्युताम् । सुतामादाय निर्ग्रन्थनाथाभ्यणे ययौ च सः॥ १३९ ॥ व्यजिज्ञपच्च नाथं त्वां नाथते मे सुता ह्यसौ । रूपयौवनसंपन्ना तदेषा प्रतिगृह्यताम् ॥ १४० ॥ यथेच्छदानभोगाभ्यामधिकं जीवितावधि । द्रविणं गृह्यतामेतत्पादौ प्रक्षालयामि ते ॥१४१॥ अथ श्रीवज्र आहस्म सरलस्त्वं वणिग्वरः। वन्द्भुमिच्छसि दूरस्थान्स्वयं बद्धः परानपि ॥ १४२॥ रेणुना रत्नराशिं त्वं कल्पवृक्षं तृणेन च । गी(र्त)कोलेन कुम्भींद्रं वायसेन सितच्छदम् ॥ १४३॥ सौधं निषादगेहेन क्षारनीरेण चामृतम् । कुद्रव्यविषयास्वादात्तपो मे संजिहीर्षसि ॥१४४॥ युग्मम् । विषयाः कम्बलोल्लासं दधत्यविकटोदयाः। सर्व धनं महाभोगैरन्यूनं चारकोपमम् ॥ १४५॥ एषा मय्यनुरक्ता चेच्छायावदनुगामिनी। मया वृतं व्रतं धत्तां ज्ञानदर्शनसंयुतम् ॥ १४६॥
१J and H सर्वानुयोगो. २ J_and I read व्याख्यायत.. ३ Preds रुक्मिण्यत्रान्वरज्यतः. ४ J & H read तद्भाषितं. ५J & H read महाभागैः. ६P reads मयादृतं.