________________
प्रभावकचरिते
निश्चित्यैकस्य वज्रस्य शब्दं ते तोषतो बभुः ॥ ११४ ॥ पुनर्दध्यावयं गच्छो धन्यो यत्रेदशः शिशुः। क्षोभोऽस्य माभूदित्युच्चैः स्वरं नैषेधिकं व्यधात् ॥ ११ ॥ वज्रोऽपि तं गुरोर्बानं श्रुत्वा लजाभयाकुलः । संनिवेश्य यथास्थानं वेष्टिकाः संमुखोऽभ्यगात् ॥ ११६ ॥ प्रतिलेख्य ततः पादौ प्रक्षाल्य प्रासुकांभसा । पादोदकं ववन्दे च गुरुणा समुदेक्षितः ॥११७ ॥ वैयावृत्यादिषु लघोर्मावज्ञास्य भवत्विति । ध्यात्वाहुर्गुरवः शिष्यान्विहारं कुर्महे वयम् ॥ ११८ ॥ ततस्ते प्रोचुरस्माकं कः प्रदास्यति वाचनाम् । ते प्राहुर्वज्र एवात्र कृतार्थान्वः करिष्यति ॥ ११९ ॥ तत्ते तथेति प्रत्यैच्छन्निर्विचारं गुरोर्वचः । ईदृस्वगुरुभक्तेभ्यः शिष्येभ्योऽस्तु नमोनमः ॥१२० ॥ प्रतिलेख्य निपध्यां च तस्यावक्राः प्रचक्रिरे । ततोऽसौ वाचनां दातुमारेभे यतिसंहतेः ॥ १२१॥ शास्त्राणामितितात्पयमनायासेन सोऽभ्यधात् । सुखं यथावगच्छन्ति ते मन्दधिषणा अपि ॥ १२२ ॥ दिनैः कतिपयैरागात्सूरिरभ्युत्थितश्च तैः ।। तदुदन्तमपृच्छच्च संभूयोचुश्च ते ततः ॥ १२३ ॥ पूज्यपादप्रसादेन संजज्ञे वाचनासुखम् । अस्माकं वाचनाचार्यो वज्र एवास्तु तत्सदा ॥ १२४॥ श्रुत्वेति गुरवः प्राहुर्मत्वेदं विहृतं मया । अस्य ज्ञापयितुं युष्मान् गुणगौरवमद्भुतम् ॥ १२५ ॥ तपस्याविधिसंशुद्धवाचनापूर्वकं ततः। अधीतवान्मुनिर्वज्रो यावंहुर्वागमागमम् ॥ १२६ ॥ गत्वा दशपुरे वज्रमवन्त्यां प्रैषुरादृताः। अध्येतुं श्रुतशेषं श्रीभद्रगुप्तस्य संनिधौ ॥ १२७ ॥ स ययौ तत्र रात्रौ च पूर्बहिर्वासमातनोत् । गुरुश्च खप्नमाचख्यौ निजशिप्याग्रतो मुदा ॥ १२८ ॥ पात्रं मे पयसा पूर्णमतिथिः कोऽपि पीतवान् । दशपूर्व्याः समनायाः कोऽप्यध्येता समेष्यति ॥ १२९ ।। इत्येवं वदतस्तस्य वज्र आगात्पुरस्ततः।
गुरुश्चाध्यापयामास श्रुतं स्वाधीतमाश्रुतम् ॥ १३०॥ १P नैषेधिकीं. २ Hand J read गतः पादौ. ३ - आशुकांभसा. ४J and I read तं. ५J and I rettl हि नत. J and H यावद्वज्रागमागगं.