________________
वज्रप्रबन्धः ।
एवं घनाघने घोरे कथंचिद्विरते सति । उपोषिता अपि श्रेयस्तृप्तास्ते मुनयोऽवसन् ॥ ९९ ॥ जगजीवनमोषेण तदा सूरोऽपि शङ्कितः । रसावस्थापनाद्विश्वे बभूव प्रकटोदयः॥१००॥ आनीय वारिधेर्वारि जगतीपरिपूरणात् । अवसन्ने च पर्जन्ये श्रमात्स्वप्न इवाध्वनौ ॥ १०१ ॥ ततस्तच्चारुवृत्तेन लेखैहृल्लेखशालिभिः। वाणिज्यकारकव्याजात्पारणाय न्यमन्त्रि सः॥१०२॥ युग्मम् । एषणात्रितये चोपयुक्तो भुक्तावनादृतः। तत्र वज्रो ययौ प्राप्य गुरोरनुमति ततः॥ १०३॥ द्रव्यक्षेत्रकालभावैरुपयोगं ददौ च सः।। द्रव्यं कूष्माण्डपाकादि क्षेत्रं देशश्च मालवः॥ १०४॥ कालो ग्रीष्मस्तथों भावे विचार्ये निमिषा अमी। अस्पृष्टभूकमन्यासा अम्लानकुसुमस्रजः ॥ १०५॥ चारित्रिणां ततो देवपिण्डो नः कल्प्यते नहि । निषिद्धा उपयोगेन तस्य हर्ष परं ययुः॥१०६॥ त्रिभिर्विशेषकम् । तत्र च प्रकटीभूय प्राणमस्तं मुनि तदा। वजं सद्वृत्ततेजोभिर्भाखरं भाखदंशुवत् ॥ १०७ ॥ अन्यत्र विहरंतश्चान्यदा ग्रीष्मर्तुमध्यतः। प्राग्वदेव सुरास्तेऽमुं घृतपूरैय॑मन्त्रयन् ॥ १०८ ॥ वज्रे तत्रापि नियूंढे विद्यां ते व्योमगामिनीम् । ददुर्न दुर्लभं किंचित्सद्भाग्यानां हि तादृशाम् ॥१०९ ॥ बाह्यभूमौ प्रयातेषु पूज्येष्वथ परेद्यवि। . सदेषणोपयुक्तेषु गीतार्थेषु च गोचरम् ॥११०॥ अवकाशं च बाल्यस्य ददच्चापलतस्तदा । सर्वेषामुपधीर्नामग्राहं भूमौ निवेश्य च ॥ १११ ॥ वाचनां प्रददौ वज्रः श्रुतस्कन्धवजस्य सः। प्रत्येकं गुरुवक्रेण कथितस्य महोद्यमात् ॥११२॥ त्रिभिर्विशेषकम् । श्रीमान्सिहगिरिश्चात्रान्तरे वसतिसन्निधौ । आययौ गर्जितौर्जित्यं शब्दं तस्याशृणोच्च सः॥ ११३ ॥ दध्यौ किं यतयः प्राप्ताः स्वाध्यायैः पालयन्ति माम् । १J and H उपोषितान्यपि. २J and H-जीवनपोषेण. ३J and I read भूरि. ४H and J सुप्त इवधनो. ५ J and H दाभावविचार्ये. ६H and J वः changed into दः for नः. ७ H and J-बाल. ८ H & J-मुपधीना०. ९P तोर्जि०.