________________
प्रभावकचरिते धर्माधिकरणे युक्तैः पृष्टौ पक्षावुभावपि । अङ्गीकारं तयोः श्रुत्वा विचारे मुमुहुश्च ते ॥ ८२ ॥ एकत्र दुःप्रतीकारा माता पुत्रं प्रयाचति । अन्यत्र संघः श्रीतीर्थनाथैरपि निषेवितः ॥ ८३ ॥ विचचार स्वयं राजा स्वरुच्या नन्दनो ह्ययम् । यत्पाय याति तस्यास्तु किं परैर्बहुभाषितैः ॥ ८४ !! ततो माता प्रथमतोऽनुज्ञाता तत्र भूभृता । क्रीडनैर्भक्ष्यभोज्यैश्च मधुरैः सा न्यमंत्रयत् ॥ ८५ ॥ सुते तथास्थिते राज्ञानुज्ञातो जनको मुनिः । रजोहरणमुद्यस्य जगादानपवादगीः॥८६॥ वत्स त्वं यदि तत्त्वज्ञः संयमाध्यवसायवान् । गृहाण तदिदं कर्म रजोहरणहेतवे ॥ ८७॥ युग्मम् । उत्प्लुत्य मृगवत्सोऽथ तदीयोत्सङ्गमागतः । जग्राह चमराभं तच्चारित्रधरणीभृतः ॥ ८८ ॥ ततो जयजयारावो मङ्गलध्वनिपूर्वकम् ।। समस्ततूर्यनादोर्जि सद्यः समजनि स्फुटः ॥८९ ।। संघस्या! तदाकार्षीद्राजा तहुरवस्ततः । संस्थानं मुदिता जग्मुर्धर्मिव्रातपुरस्कृताः ॥९० ॥ दध्यौ सुनन्दा सोदर्य आर्यपुत्रः सुतोऽपि च । मदीया यतयोऽभूवंस्तन्ममापीति सांप्रतम् ॥ ९१ ॥ त्रिवार्षिकोऽपि न स्तन्यं पपौ वज्रो व्रतेच्छया। दीक्षितो गुरुभिस्तेन तत्र मुक्तः समातृकः ॥९२॥ अथाष्टवार्षिकं वज्रं कृत्वा साध्वीप्रतिश्रयात् । श्रीसिंहगिरयोऽन्यत्र विजह्वः सपरिच्छदाः ॥ ९३ ॥ तदा चाप्रतिबन्धेन तेषां विहरतां सताम् । पर्वतासन्नमेदिन्यामीर्यासमितिपूर्वकम् ॥ ९४ ॥ वनप्राग्भवमित्रैश्च तं दृष्टा ज़म्भकामरैः। वैक्रियाविष्कृता मेघमाला तस्य परीक्षणे ॥ ९५ ॥ कुरंकरस्वरैः केकिकेकारावेण मिश्रितैः।। तिलतन्दुलितो नादः श्रुतिस्वाद्यसुधाभवत् ॥ ९६॥ नीरैर्नदद्भिद्दामसंभवद्भिर्निरंतरम् । प्लाविता भूस्तदद्वैतघटितेव तदाभवत् ॥ ९७ ॥ विपुले तस्थिवांसस्ते गिरेरेकत्र कन्दरे ।
गुरवस्तोयजीवानां विराधनमनिच्छवः ॥९८ ॥ 5 P reads जिसज्जः. २ P खं स्थानं. ३P दीक्षित्वा. दिलतुन्द०. ५H and J तीरैर्नद०.
)