________________
वज्रप्रबन्धः ।
अजातवृजिना बन्धपात्रबन्धे नियोज्य तम् । विरतं रोदनात्तुष्टिपुष्टं संदर्य तत्पुरः॥६५॥ बहिःकृतान्तरारातिर्बहिः कृत्वा गृहाङ्गणात् । भज्यमानभुजस्तस्य भारादागाहुरोः पुरः॥६६॥ युग्मम् । आयान्तं भुग्नमात्रं तं वीक्ष्य संमुखमाययुः। तद्वाहोः पात्रबन्धं च गुरवः खकरे व्यधुः॥६७॥ वज्रोपमं किमानीतं त्वयेदं मम हस्तयोः। भारकृन्मुमुचे हस्तान्मयासौ निजकासने ॥ ६८॥ इत्युक्त्वा च समैक्षन्त गुरवस्तं शशिप्रभम् । साध्वास्यचन्द्रकान्तानां सुधास्त्रावनिबन्धनम् ॥ ६९॥ गुरुश्च वज्र इत्याख्यां तस्य कृत्वा समा(मर्पयत् । साध्वीपाच्छिाविकाणां व्यहादिन्यतस्ततः॥ ७॥ गुरुभक्त्याथ तद्भाग्यसौभाग्याच्च वशीकृताः। धर्मिनार्यः क्षीरपानमुख्यशुश्रूषणैः शिशुम् ॥ ७१ ॥ प्रावर्धयन्निजापत्याधिकवात्सल्यकेलितः। साध्वीनामाश्रये रात्रौ वस्त्रदोलाशयं मुदा ॥ ७२ ॥ युग्मम् । तत्र स्थितो वितन्द्रः सन्नङ्गान्येकादशाप्यसौ। साध्वीभिर्गुण्यमानानि निशम्याधिजगाम सः ॥७३॥ ततो विशेषिताकारं तदीयपरिचर्यया । तत्रायाता सुनन्दापि तं निरीक्ष्य दधौ स्पृहाम् ॥ ७४॥ प्रार्थयश्चाथ ताः साध्वी सुतं मे ददतेति सा। ऊचुस्ता वस्त्रपात्राभा गुरुस्थापनिका ह्यसौ ॥७५॥ कथं शक्योऽर्पितुं बालस्तस्मादत्रस्थ एव सन् । लाल्यः परं गृहे नेयो न गुर्वनुमतिं विना ॥ ७६॥ अन्यदा गुरवः प्रापुस्तत्पुरं तजनन्यपि । नन्दनं प्रार्थयामास गृहिवत्पत्युरन्तिके ॥ ७७॥ स च प्राह नृपादेश इव सन्मर्त्यवागिव ।। कन्याप्रदानमिव च महतामेकशो वचः॥ ७८॥ गृहीतमुक्तं जायेत नो बालपरिधानवत् । एवं विमृश्य धर्मक्षे नो वा सन्त्यत्र साक्षिणः ॥ ७९ ॥ निर्विचाराग्रहा साप्यवलेपं न त्यजेद्यदा। संघप्रधानपुरुषैः पर्यच्छेदि सुभाषितैः ॥ ८० ॥ तत्राप्यमानयन्ती सा गता राज्ञः पुरस्तदा। यतयश्च समाहूताः संघेन सह भूभृता ॥८१॥
१ P अजातव्रजिनां बंधः. २ P reads गत्वा. ३ H and J read तः.