________________
प्रभावकचरिते
पूर्णे कालेऽन्यदासूत सुनन्दा सुतमुत्तमम् । तेजोभी रत्नदीपानामपि सापल्यदुःखदम् ॥४७॥ निजैः प्रवर्तितस्तत्र पुत्रजन्मोत्सवो मुदा। यदीक्षणादनिमिपा दधुः स्वं नाम सार्थकम् ॥४८॥ अजल्पत्तत्र कोऽप्यस्य प्रावाजिप्यन्न चेत्पिता। महेऽधिकतरो हर्षस्ततोऽत्र समपत्स्यत ॥ ४९॥ प्राच्यदेवभवज्ञानांशेन संजीव नन्दनः । दध्यावहो महापुण्यो मत्पिता संयमग्रहात् ॥ ५० ॥ ममापि भवनिस्तारः संभवी संयमाद्यदि । अत्रोपायं व्यमृक्षञ्च रोदनं शैशवोचितम् ॥५१॥ अनेकोल्लापनस्नानदेहसंवाहनादिभिः । गजाश्वकाविवीक्षाभिरपरैरपि कौतुकैः ॥ ५२ ॥ भृशं प्रलोभ्यमानोऽपि न तस्थौ स क्षणं सुखम् । कथं वदति यो जाग्रच्छेते कैतवनिद्रया ॥ ५३॥ युग्मम्
ध्यौ मातापि सोमश्रीवत्स आप्यायको दृशाम् । यदुच्चकैरवक्लेशप्रदस्तद्धि दुनोति माम् ॥ ५४ ॥ एवं जग्मुश्च षण्मासाः षड्वर्षशतसंनिभाः। तन्निवेशनमागाच्च तदा सिंहगिरिर्गुरुः ॥ ५५॥ तत्र गोचरचर्यायां विशन्धनगिरिमुनिः। गुरुणा दिदिशे पक्षिशब्दज्ञाननिमित्ततः॥५६॥ अद्य यद्रव्यमाप्नोषि सचित्ताचित्तमिश्रकम् । ग्राह्यमेव त्वया सर्व तद्विचारं विना मुने ॥ ५७॥ तथेति प्रतिपेदानस्तदार्यसमितान्वितः । सुनन्दासदनं पूर्वमेवागच्छदतुच्छधीः ॥ ५८ ॥ तद्धर्मलाभश्रवणादुपायातः सखीजनः। सुनन्दां प्राह देहि त्वं पुत्रं धनगिरेरिति ।। ५९ ॥ सापि निर्वेदिता बाढं पुत्रं संगृह्य वक्षसा। नत्वा जगाद पुत्रेण रुदता खेदितास्मि ते ॥ ६० ॥ गृहाणेनं ततः स्वस्य पार्श्वे स्थापय चेत्सुखी । भवत्यसौ प्रमोदो मे भवत्वेतावतापि यत् ॥ ६१ ॥ स्फुटं धनगिरिः प्राह ग्रहीष्ये नन्दनं निजम् । परं स्त्रियो वचः पंगुवन्न याति पदात्पदम् ॥ ६२॥ क्रियन्तां साक्षिणस्तत्र विवादहतिहेतवे । अद्यप्रभृति पुत्रार्थे न जलप्यं किमपि त्वया ॥ ६३ ॥ अतिखिन्ना च सावादीदत्रार्यसमितो मुनिः। साक्षी सख्यश्च साक्षिण्यो भाषे नातः किमप्यहम् ।। ६४॥