________________
वज्रप्रबन्धः ।
AU
तस्यार्थिजनदौःस्थित्यमुस्तोच्छेदमहाकिरिः । पुत्रो धनगिरि म कामप्रतिमविग्रहः ॥ ३०॥ आबाल्यादप्यबाल्याभविवेकच्छेकमानसः। नाभिलाषी परिणये प्रणयेन महात्मनाम् ॥ ३१ ॥ धनपालाख्यया तत्र व्यवहारी महाधनः। यल्लक्ष्मीवीक्षणाल्लक्ष्मीपतिराविक्षदम्बुधिम् ॥ ३२॥ तस्यार्यसमितः पुत्रः सुनन्दा च सुताभवत् । तयोः समागमस्तत्र लक्ष्मीकौस्तुभयोरिव ॥ ३३ ॥ सुनन्दा यौवनोद्भेदमेदुराङ्गी विलोकयन् । वरं धनगिरिं दध्यौ तत्पिता गुणगौरवात् ॥ ३४॥ तत्सुतः समितो गेहवासेऽपि यतिवद्वसन् । यायावरेषु भोगेषु वैराग्यं परमं दधौ ॥ ३५॥ श्रुतश्रीखण्डमलयगिरेः सिंहगिरेः प्रभोः। स दीक्षामग्रहीत्पाा पार्श्वे निर्वृतिवेश्मनः ॥ ३६॥ अन्यदा धनपालश्च प्रोचे धनगिरिं सुधीः। सागरस्येव रेवास्तु सुनन्दा ते परिग्रहे ॥ ३७॥ स प्राह ज्ञाततत्त्वार्थों भवतां भवचारके। सुहृदां सहृदां किं स्याद्वन्धनं कर्तुमौचिती ॥ ३८ ॥ प्रोवाच धनपालोऽपि पुरा श्रीऋषभप्रभुः। तृणवद्भोगकर्मेदं भुक्त्वा मुक्तो भवार्णवात् ॥ ३९ ॥ न चानुचितमेतत्तन्मानिन्मानय मद्गिरम् । मानसेऽतिविरक्तेऽपि मेने तत्प्रश्रयाच्च सः॥४०॥ उदुवाह शुभे लग्ने स (तु) तां सततोत्सवैः । अनासक्तः स विषयान्वुभुजे मर्त्यदुर्लभान् ॥ ४१ ॥ स वैश्रमणजातीयसमानिकसुरोऽन्यदा । अष्टापदाद्रिशृङ्गे यः प्रत्यबोधीन्द्रभूतिना ॥ ४२ ॥ सुनन्दाकुक्षिकासारेऽवतीर्णः स्वायुषः क्षये। प्राक्प्रेरणा दत्तसुस्वप्नैरस्वप्नै रहितो दृढम् ॥४३॥ युग्मन् । ततो धनगिरिर्धन्यंमन्योऽवसरलाभतः । अपृच्छत व्रते पत्नीं तुष्टां पुत्रावलम्बनात् ॥४४॥ जरद्रज्जुमिव प्रेमबन्धं छित्त्वा स सत्वरम् । तत्रायातस्य तत्पुण्यैः पार्श्वे सिंहगिरेर्ययौ ॥ ४५ ॥ व्रतं तत्राददे लोचपूर्व सामयिकोत्तरम् ।। दुस्तरं स तपस्तप्यमानोऽप्रीयत चानिशम् ॥ ४६॥
१ P सामानिक.