________________
प्रभावकचरिते
ध्याततन्नाममन्त्रस्य प्रसादात्प्राप्तवासनः। आरोक्षन्निव हेमाद्रिं पादाभ्यां विश्वहास्यभूः ॥१३॥ श्रीवज्रानुप्रवृत्तानां शासनोन्नतिकारिणाम् । प्रभावकमुनीन्द्राणां वृत्तानि कियतामपि ॥१४॥ बहुश्रुतमुनीशेभ्यः प्राग्ग्रन्थेभ्यश्च कानिचित् । उपश्रुत्येतिवृत्तानि वर्णयिष्ये कियन्त्यपि ॥ १५॥ विशेषकम् । श्रीदेवानन्दशैक्षश्रीकनकप्रभशिष्यराट् । श्रीप्रद्युम्नप्रभुर्जीयाद्रन्थस्यास्यापि शुद्धिकृत् ॥ १६ ॥ श्रीवज्रो रक्षितः श्रीमानार्यनन्दिल इत्यपि । सूरि:श्रीकालिकाचार्यपादलिप्तप्रभुस्तथा ॥ १७ ॥ रुद्रदेवः प्रभुः सूरिः श्रमणसिंह इत्यपि । अथार्यखपटः सूरिर्महेन्द्रश्च प्रभावकः ॥१८॥ सूरिर्विजयसिंहश्च जीवदेवमुनीश्वरः। वृद्धवादी सिद्धसेनो हरिभद्रप्रभुस्तथा ॥ १९ ॥ मल्लवादिप्रभुर्बप्पभट्टिः कोविदवासवः । श्रीमानतुंगसूरि श्रीमानदेवो मुनीश्वरः ॥२०॥ सूरिश्च सिद्धव्याख्याता श्रीमान् वीरगणिप्रभुः। वादिवेतालबिरुदः शान्तिसूरिः प्रभुस्तथा ॥ २१ ॥ श्रीमान्महेन्द्रसूरिः श्रीधनपालेन संगतः। सूराचार्यप्रभुः श्रीमान्कृतभोजसभाजयः ॥२२॥ श्रीमानभयदेवश्च वीराचार्यः कवीश्वरः। देवसूरिर्गुरुः श्रीमान्हेमचन्द्रप्रभुस्तथा ॥ २३॥ सप्तभिः कुलकम्। मादृशोऽल्पमतिः कीदृगेतेषां गुणकीर्तने । कलध्वनि सितास्वादे मूकोऽपि कुरुतेऽथवा ॥२४॥ एतच्चरितशाखिभ्यः संमील्य सुमनश्चयम् । तवृत्तमालामुद्दामा गुम्फिष्यामि गुरोगिरा ॥ २५॥ निधिः सौभाग्यभाग्यस्य नाम यस्यादिमङ्गलम् । वज्रवामिविभोः पूर्व वृत्तं तस्य मयोच्यते ॥२६॥ अस्त्यवन्तीतिदेशः क्षमासरसीसरसीरुहम्। यहुणग्रामरङ्गेण बद्धसख्ये रमागिरौ ॥२७॥ तत्र तुम्बवनो नाम निवेशः क्लेशवर्जितः। अभूवन्यस्य वासाय नाकिनोऽप्यभिलाषुकाः ॥ २८ ॥ तत्र श्रेष्ठी धनो नाम कामधुकल्पपादपौ। अमानमानयद्दानजितौ त्रिदिवमाश्रितौ ॥ २९ ॥
१ P reads शिष्य. २ P reads प्रभोः.