________________
१५
आर्यरक्षितप्रबन्धः। स प्राह चाविलम्बेन तदलं मे समादिश । येनाधीतेन ते तुष्टिः कार्यैरन्यैस्तु किं मम ॥२१॥ रोमाञ्चकञ्चकोद्रेदमेदुराथ जनन्यपि। प्रधानं मन्यमाना स्वं पुत्रिणीनामवोचत ॥२२॥ अधीष्व विष्वगुन्निद्राभद्रविद्रावणक्षमम् । दृष्टिवादं जिनोपशमन्यैरज्ञातसंज्ञकम् ॥ २३॥ तमाकर्ण्य सुतो दध्यौ तावन्नामापि सुन्दरम् । दृष्टिवाद इदानीं तदवश्यं कार्यमेव मे ॥२४॥ समस्ततीर्थमूर्द्धन्ये मम मातः समादिश। अध्यापकं तदभ्यासे यथाभ्यस्यामि तं द्रुतम् ॥ २५॥ उवाच रुंद्रसोमापि वत्स ते विनयावने । अवतारणके यामि सावधानस्ततः शृणु ॥२६॥ जैनर्षयो महासत्त्वास्त्यक्ता ब्रह्मपरिग्रहाः। परमार्थस्थितवान्ताः सज्ज्ञानकुलभूमयः ॥२७॥ अस्य ग्रन्थस्य वेत्तारस्तेऽधुना स्वेक्षुवाटके। सन्ति तोसलिपुत्राख्याः सूरयो ज्ञानभूरयः॥२८॥ त्रिभिर्विशेषकम्। पठाशठमते तेषां पार्श्वे ग्रन्थमिमं वरम् । यथा त्वदीयवृत्तेन कुक्षिमै शीतलीभवेत् ॥ २९॥ श्रुत्वेत्यहर्मुखे यामीत्युक्त्वा तद्ध्यानतत्परः। निशां निन्ये विनिद्रः सन्निरगाश्च बहिस्ततः ॥ ३०॥ अर्द्धमार्गे पितुर्मित्रं संमुखोऽस्य द्विजोऽभवत्। . इक्षोर्नवलताः सार्धाः स्कन्धे तद्धेतवे वहन् ॥ ३१॥ तेनाभिवादयन्नालिलिङ्गे प्रीत्यार्यरक्षितः। व्यावृत्त्यागच्छ गेहे त्वमित्युक्तश्चायमब्रवीत् ॥ ३२॥ मात्रादेशेन यात्वाहं समायास्यामि शीघ्रतः। पूज्यैर्गन्तव्यमावासे निजबन्धुप्रसत्तये ॥३३॥ इत्युक्त्वा संचरन्निक्षुवाटाभिमुखमादृतः। दध्यौ मनस्यहो सम्यगस्मादृढनिमित्ततः॥ ३४॥ अध्याया वा परिच्छेदा नव सार्दा मया ध्रुवम् । अस्य ग्रन्थस्य लप्स्यन्ते नाधिकं निश्चितं ह्यदः॥ ३५ ॥ प्रातःसंध्याक्षणे तत्र मुनिः स्वाध्यायडम्बरैः। शब्दाद्वैतमयं शृण्वन्नाश्रयद्वारमार्थयत् ॥ ३६॥ किंकर्तव्यजडस्तत्राजानन् जैनपरिश्रमम् ।
ढट्टरश्रावकं सूरिवन्दकं प्रेक्षदागतम् ॥३७॥ १P-मज्ञै. २P मतमाम. ३P reads सोमरुद्रा. ४J and H प्रवृत्या. ५J and H लभ्यते. ६J and H रमाश्रयन्.