________________
प्रभावकचरिते तत्पृष्ठस्थो ययौ सोऽपि विदधे वन्दनादिकम् । तद्वदेव महाप्राज्ञस्तादृशां किं हि दुष्करम् ॥ ३८॥ सर्वसाधुप्रणामानन्तरं श्रावकवन्दनम् । अशिक्षितत्वान्नाकार्य्यनाख्यातं बुध्यते कियत् ॥ ३९ ॥ चिहृनानेन विज्ञाय नवं तं सूरयस्तदा । कुतो धर्मस्य संप्राप्तिरिति पप्रच्छुरादरात् ॥ ४०॥ ढहरं दर्शयन्नस्मादेव धार्मिकपुंगवात् । इत्यूचिवांसमेकश्च मुनिर्लक्षयतिस्म तम् ॥ ४१॥ आह कल्यदिने राज्ञा प्रावेश्येष महोत्सवात् । पुरोहितसुतश्राद्धरुद्रसोमाङ्गसंभवः॥ ४२ ॥ चतुर्वेदी समस्ताद्यगुणस्थानभृतां वरः। असंभाव्यागमः कस्मादत्रायाज्ज्ञायते न तत् ॥४३॥ अथार्यरक्षितः प्राह मातुरुक्तमनातुरः। आकण्यति प्रभुर्दध्यौ तच्चरित्रचमत्कृतः॥४४॥ कुलीन आस्तिको विप्रः कुलानुचितमार्दवः। संभाव्यसुकृताचारो जैनधर्मोचितो ह्ययम् ॥४५॥ उपयोगं श्रुते दत्वा पूर्वपाठोचितं च तम् । प्रभावकं भाविनं च श्रीमद्वज्रादनन्तरम् ॥४६॥ ध्यात्वा तं सूरयोऽवोचन जैनप्रव्रज्यया विना। नदीयते दृष्टिवादो विधिः सर्वत्र सुंदरः॥४७॥ त्रिभिर्विशेषकम्। स प्राह प्राच्यसंस्कारां ममासन्नव केशिनः। ततो जैनेन्द्रसंस्कारैरलंकुरुत मे वपुः ॥४८॥ परं किंचिच्च विज्ञप्यमास्ते तदवधार्यताम् । मिथ्यामोहेन लोको हि सर्वो मय्यनुरागवान् ॥ ४९ ॥ राजापि ज्ञातवृत्तान्तो दीक्षामुत्सर्जयेदपि । अबुधस्वजनानां च ममकारो हि दुस्त्यजः॥५०॥ शावरूपे निजे तस्मात्प्रसद्य(ह्य) मयि दीक्षिते । अन्यदेशे विहर्त्तव्यं माभूच्छासनलाघवम्॥५१॥ त्रिभिर्विशेषकम् । ओमित्युक्त्वा गुरुस्तस्य सार्वज्ञपरमाक्षरैः। अभिमन्त्र्याथ तन्मूर्ध्नि वासानक्षि(नाक्षे)पतोऽक्षिपत् ॥५२॥ सामा(म)यिकव्रतोच्चारपूर्व पूर्वाभिलाषिणः।। केशान् क्लेशानिवाशेषानपनिन्ये मुनीश्वरः ॥५३॥ १P-वंदना. २J and H यस्तथा. ३ P-तः श्राद्धारुद्र. ४ J and H. संस्काराः समासन्न. ५J-मुत्सृज H-मुत्सृर्ज. ६ and H-वासानक्षेपतो. P क्षिपन्.