________________
आर्यरक्षितप्रबन्धः ।
ईशानकोणे गार्हस्थ्यनेपथ्यं परिहाय सः। परिधाप्य सिते वस्त्रे यतिवेषेण योजितः ॥ ५४॥ विहारं तत्क्षणात्ते च विदधुनगरान्तरे । विधाय पुरतस्त्वार्यरक्षितो नवदीक्षितः ॥ ५५ ॥ अध्यापितः समूलाङ्गोपाङ्गादिग्रन्थमण्डलम् । तत्तत्तपस्यया पूर्वाणि च कान्यपि सूरिभिः॥५६॥ अधीतपूर्वी शास्त्राणि बुद्धपूर्वी हिताहितम् । विनीतपूर्वी स्वाचारं ज्ञातपूर्वी व्रतान्यभूत् ॥ ५७ ॥ गुरवः शेषपूर्वाणां पाठायोजयिनीपुरि । तमार्यरक्षितं प्रैषुः श्रीवज्रस्वामिनोन्तिके ॥५८॥ गीतार्थैर्मुनिभिः सत्रा तत्रागादार्यरक्षितः। श्रीभद्रगुप्तसूरीणामाश्रये प्राविशत्तदा ॥ ५९॥ युग्मम् । आश्लिष्य मेहतः प्राहुः प्रत्यभिज्ञाय ते च तम् । आर्यरक्षित कच्चित्ते भद्रपूर्वाभिलाषुकः॥ ६०॥ अभिसंधिर्मम प्रायोपवेशनविधौ भवान् । निर्यामो भव तद्वेला कुलीनानामियं यतः ॥ ६१ ॥ तथेति प्रतिपद्याथ तथाशुश्रूषत प्रभुम् । यथा जानाति नैवासावुदयास्तमने रवेः॥ ६२॥ समाधौ परमे लीनोऽन्यदा प्रोवाच हर्षतः।। क्षुत्तटक्लमं न जानेऽहं वत्स त्वद्वरिवस्यया ॥ ६३ ॥ इहलोकेपि देवत्वं संप्राप्त इव तसात् । गोप्यं किंचिच्छिक्षयिष्ये त्वां ततोऽवहितः शृणु ॥ ६४॥ श्रीवज्रस्वामिपादान्ते त्वया पिपठिषाभृता । भोक्तव्यं शयनीयं च नित्यं पृथगुपाश्रये ॥६५॥ यतस्तदीयमण्डल्यामेककृत्वोऽपि योभुनक् । रात्रौ सुप्तश्च पार्श्वे यत्तस्य तेन सहात्ययः॥६६॥ प्रभावको भवानर्हच्छासनाम्भोधिकौस्तुभः। संघाधारश्च भावी तदुपदेशं करोतु मे ॥६७॥ त्रिभिर्विशेषकम् । इच्छामीति प्रभोरंही शिरसि प्रणिधाय सः। ओमिति प्रतिपेदेऽतिविनीतानामियं स्थितिः॥ ६८॥ अथ श्रीभद्रगुप्तेऽस्मिन् कालधर्ममुपागते । सौनन्देयप्रभोः पार्श्वे प्रचचालार्यरक्षितः॥ ६९ ॥ तदा च ददृशे स्वप्नः श्रीवज्रेणाप्यजलप्यत । विनेयाग्रेऽद्य संपूर्णः पायसेन पतगृहः ॥ ७० ॥ १J and H omit it. २J and H-काचित्त्वं. ३ J& H
सहायय.