________________
प्रभावकचरिते
पारितोऽतिथिनागत्य किंचिच्छेषमवास्थितम् । तदेतस्य विचारोऽसौ चित्तांतर्घटते मम ॥ ७१ ॥ युग्मम् । अद्य प्राज्ञोऽतिथिः कश्चिदागत्य मम संनिधौ । श्रुतं ग्रहीष्यतेऽशेषमल्पं स्थास्यति किंचन ॥ ७२ ॥ एवं वदत एवास्य समागादार्यरक्षितः। दृष्टो हि महता स्वप्नोऽवश्यं सद्यः फलेग्रहिः॥ ७३ ॥ अपूर्वमतिथि दृष्ट्राभ्युत्थाय स्वागतोन्नतः। नमस्कुर्वन्तमेनं च स प्रभुाहरत्तदा ॥ ७४॥ कौतस्कुतोऽयं भावत्क आगमः स ततोऽवदत् ।। श्रीमत्तोसलिपुत्राणामन्तिकादागमं प्रभो ॥ ७५॥ श्रुत्वेति स प्रभुः प्राह किं भवानार्यरक्षितः। पूर्वशेषस्य पाठार्थमस्मत्पार्श्व इहाययौ ॥ ७६॥ तेवोपकरणं कुत्र पात्रसंस्तारकादिकम् । तदानयातिथिर्नस्त्वमद्य मा गोचरं चरेः ॥ ७७॥ भुत्वात्रैव ततोऽध्यायमारभखेति तद्रिः । श्रुत्वा स प्राह चाभ्यर्थि मया पृथगुपाश्रयः ॥ ७८ ॥ स्वापं भुक्तिं च तत्रैव कृत्वाध्येक्षे तवान्तिके। श्रीवज्रः प्राह पार्थक्यस्थितैः कथमधीयते ॥ ७९ ॥ अथार्यरक्षितोऽवोचद्भद्रगुप्तगुरोर्वचः। इदमित्युदिते वज्र उपयोगं ददौ श्रुते ॥ ८० ॥ भुक्तौ स्वापे मया साध दिष्टान्तोपि भवेत्सह । ततः समुचितं प्राहुः प्रभवस्तद्भवत्विदम् ॥ ८१ ॥ एनमध्यापयामासुस्ततः श्रीवज्रसूरयः। अर्द्ध दशमपूर्वस्य प्रारेमे घोषितुं च सः॥ ८२ ॥ अस्मिन् ग्रन्थे दुरध्येयाभंगकैर्दुर्गमैर्गमैः। पर्यायैर्दुर्वचैः शब्दैः सदृशैर्जविकावलिः ॥ ८३॥ चतुर्विंशतिसंख्यानि जविकानि च सोऽपठत् । अधीयानस्य चायासोऽभवत्तस्याद्भुतः किल ॥८४॥ युग्मम् । इतश्च रुद्रसोमापि तस्य माता व्यचिन्तयत् । अहो ममाविमर्शो दुरनुतापाफलेग्रहिः॥ ८५॥ हृदयानन्दनो धीमान्नन्दनः शीलचन्दनः। आर्यरक्षितसंकाशो मया प्रैष्यल्पमेधसा ॥ ८६ ॥ उद्योतं चिन्तयन्त्या मे तमित्रं जातमद्भुतम् ।।
तस्मादाहूतये तस्य प्रहेयः फल्गुरक्षितः ॥ ८७॥ १J and H omit शेष. २J H तत्रोपकरणं. ३ J anal H omit sts 79 to 88.