________________
आर्यरक्षितप्रबन्धः । सोमदेवस्तया पृष्टः श्रोत्रियः सरलोऽवदत् । त्वं यत्कृतप्रमाणा मे ततो यद्भावि तत्कुरु ॥ ८८॥ प्रजिघाय ततः सापि द्वैतीयीकं निजाङ्गजम् । वत्स गच्छ निजभ्रातुर्मम वाक्यं निवेदय ॥ ८९ ॥ जनन्या बन्धुसंसर्ग मोहं चं त्याजितो भवान् । परं वत्सलताबुद्धिर्जिनेन्द्रैरपि मानिता ॥९०॥ . स्वमातुर्गर्भवासेऽपि श्रीवीरो भक्तिभूर्यतः।। शीघ्रतस्तत्समागच्छ निजमास्यं प्रदर्शय ॥ ९१॥ युग्मम् । तथा ममाप्यसौ मार्गों भवता यः समाश्रितः। तदनु त्वत्पितुः पुत्रपुत्रीवर्गेऽप्यसौ पुनः॥ ९२॥ यदि न स्नेहबुद्धिः स्यात्ततोऽप्युपकृतौ मुदा । एककृत्वः समागच्छ कृतार्थत्वं प्रयच्छ मे ॥९३ ॥ युग्मम् । आख्यायास्त्वमिदं गच्छ पथि देहे च यत्नवान् । त्वदीयस्य शरीरस्य वयं भाग्योपजीविनः॥ ९४ ॥ इत्याकर्ण्य वचो मातुर्नम्राङ्गः फल्गुरक्षितः। गत्वोपबन्धु कथयांचकार जननीवचः॥९५॥ षडिः कुलकम् । क ईदृक्षो भवत्तुल्यः सोदराम्बासु वत्सलः। भवत्तातस्तु नहि मामाकोशेत्कुललजया ॥ ९६॥ अतिस्वच्छं तदागच्छ वत्स स्वं दर्शयास्यकम्। त्वदर्शनामृतैस्तृप्ता वितृष्णा संभवामि यत् ॥९७॥ रुद्रसोमात्मनो माता संदिदेशेति मदिरा। तस्मात्प्रसादमासाद्य गम्यतांमातृवत्सल॥९८॥ त्रिभिर्विशेषकम् । बन्धोः श्रुत्वा वचः प्राह वैराग्यादार्यरक्षितः। फल्गुरक्षित को मोहः संसारे शाश्वतेतरे ॥ ९९॥ अस्तु वाध्ययनस्यान्तरायं कः कुरुते सुधीः। फल्गुना वल्गु नो कोपि परित्यक्तुं समीहते ॥ १०० ॥ भवांश्चेन्मयि सस्नेहस्तत्तिष्ठतु ममान्तिकम् । दीक्षां विना न च स्थातुं शक्यं तत्तां गृहाण भोः ॥१०१॥ स तथेति वदस्तेन तत्क्षणं समदीक्ष्यत । श्रेयःकार्येषु को नाम विलम्बायोपतिष्ठते ॥ १०२॥ जविकै र्णितो बाढं धीमानप्यार्यरक्षितः। श्रीमद्वज्रप्रभुं प्राह किमस्मादवशिष्यते ॥ १०३॥ अधीष्व पृच्छया किं ते इत्युक्त्वा पठतिस्म सः। कियत्यपि गते काले पुनः पप्रच्छ तहुरुम् ॥ १०४ ॥ १ P-द्वतीयकं. २ P-तfor च. ३ J and H वल्गुना.