________________
प्रभावकचरिते ततः श्रीवज्र आचख्यौ सर्षपः पठितस्त्वया । मेरुरत्रावतिष्ठेत तन्ममैकं वचः शृणु ॥ १०५ ॥ काञ्जिकेन कथं क्षीरं कर्पूरं लवणेन च । कुङ्कुमं च कुसुंभेन जातरूपं च गुञ्जया ॥ १०६ ॥ उषया वज्रषा(खा)निं च चन्दनं कनकद्रुणा । पूर्वाध्ययनमल्पेन स्वमोहेन यदुज्झसि ॥ १०७ ॥ ततः पठ श्रुताम्भोधेर्मध्यं प्राप्तः फलं यथा । सज्ज्ञानशक्तिरत्नौघं लभसे लिप्सया विना ॥१०८॥ इत्याकर्ण्य पठन्नुञ्चैर्वासराणि कियन्त्यपि। अनुजेन पुनः प्रेरि स्वैरिण्याह्वानकृद्विरा ॥१०९ ॥ आपप्रच्छे पुनः सूरिमायासितः पुनदृढम् । संबन्धिसंगमे स्वामिन् प्रहिणूत्कण्ठितं जनम् ॥ ११० ॥ पाठाय पुनरायास्ये शीघ्रं तैः सह संगतः। इति श्रुत्वा श्रुते प्रादादुपयोगं पुनः प्रभुः ॥ १११ ॥ अज्ञासीत्पुनरायातो मिलिष्यति न मे पुनः। मदायुषस्तनीयस्त्वादियत्येवास्य योग्यता ॥ ११२ ॥ तथा दशमपूर्व च मय्येव स्थास्यति ध्रुवम् । तत्प्राह वत्स गच्छ त्वं मिथ्या दुःकृतमस्तु ते ॥ ११३॥ यदामुण्यायणो मेधानिधिस्त्वं नेदशोऽपरः। ततोऽभूदादरोऽस्माकमध्यापनविधौ तव ॥ ११४ ॥ प्राप्तिरीदृक् क ते सन्तु पन्थानः शिवतातयः। श्रुत्वेत्यंही प्रभोर्नत्वा चचालात्मभुवंप्रति॥११५॥चतुर्भिः कुलकम्। अखण्डितप्रयाणैः स शुद्धसंयमयात्रया। संचरन्नाययौ बन्धुसहितः पाटलीपुरम् ॥ ११६॥ श्रीमत्तोसलिपुत्राणां मिलितः परया मुदा । पूर्वाणां नवके सार्द्ध संगृहीती गुणोदधिः॥११७ ॥ तं च सूरिपदे न्यस्य गुरवोऽगुः परं भवम् । अथार्यरक्षिताचार्यः प्रायादशपुरं पुरम् ॥११८ ॥ अग्रेभूय निजावासमाययौ फल्गुरक्षितः। वर्द्धये वर्द्धये मातर्मुरुस्तत्सुत आगमत् ॥ ११९ ।। आस्यायत्युंछने गान्ते वचनाय बलिक्रिये(?)।
आर्यरक्षितनामा यः कुत्र कुत्र स पुत्रकः ॥ १२० ॥ १J and H-वज्रवोनि; H adds र on the margin. २P मायासितपनदृढम् with correction on the margin मायासितमतिदृढम्. ३ J & H. पुनः पुनः for पुनः प्रभुः. ४ J andH मय्यवस्था.