________________
आर्यरक्षितप्रबन्धः ।
अस्मिन्पुण्यवतीक्षा किं यद्रक्ष्यामि तन्मुखम् । एवं वदन्त्या एवास्याः पुरोऽभूदार्यरक्षितः ॥ १२१ ॥ जैनलिङ्गधरं तं चाप्रेक्ष्यमाणमथादरात् । रोमाञ्चकञ्चकोद्भेदमेदुराभिगमाद्भुतम् ॥ १२२ ॥ श्रोत्रियः सोमदेवोऽपि तत्रागात्संगमोत्सुकः । दृढमाश्लिष्य च प्राह स्वात्मजस्नेहमोहितः॥१२३॥ शीघ्रमागाः कथं वत्स तं प्रवेशोत्सवं विना। हुं ज्ञातं विरहार्त्तायाः स्वमातुर्मिलनोत्सुकः ॥ १२४ ॥ इदानीमपि गच्छ त्वं बाह्योद्याने यथा नृपम् । विज्ञप्य नगरोत्साहोत्सवपूर्व प्रवेशये ॥ १२५॥ ततः श्रमणवेषं च परित्यज्य पुनर्गृहे । द्वितीयाश्रममव्यग्रः पालयस्व कृतालयः॥१२६॥ यायजूककुलोत्पन्नानुरागस्था कनी मया । रूपयौवनसंपन्ना चिन्तिताग्रे तवोचिता ॥ १२७ ॥ श्रौतेन विधिना तां त्वं विवहस्व महोत्सवैः। तथा त्वजननी कौतुकानां स्वादं लभेतव (लभेत वै) ॥१२८॥ द्रविणोपार्जने चिन्ता कापि कार्या नहि त्वया । आसप्तमकुलापूर्ण नृपपूज्यस्य मे धनम् ॥ १२९ ॥ अङ्गीकृते गृहोद्धारे भवता भवतानवम् । दृष्टवन्तो वयं दध्मो वानप्रस्थाश्रमे मतम्॥१३०॥ अष्टभिः कुलकम् । अथात्मभूर्मुनिः प्राह तात त्वं मोहवातकी। वाहीक इव शास्त्राणां भारं वहसि दुर्धरम् ॥१३१॥ भवे भवे पिता माता भ्राता जामिः प्रिया सुता । तिरश्चामपि जायन्ते हर्षस्तद्वेत्तुरत्र कः ॥ १३२ ॥ राजप्रसादतः को हि गर्यो भृत्यतयोर्जितात् । द्रव्ये हि पुनरास्था का बहूपद्रवविद्रुते ॥ १३३॥ दुष्प्रापं मर्त्यजन्मेदं रत्नवद्गृहमोहतः। नश्वरावकरप्रायाद्वारयेन्न हि कः सुधीः ॥ १३४ ॥ तत्परीक्ष्य तमुत्सृज्य प्रव्रज्याप्ताहती मया । मुक्तानपुनरादास्ये भोगान्भोगीशभोगवेत् ॥ १३५ ॥ दृष्टिवादोऽपि नो पूर्णः पठितस्तत्कथं पितः । अवतिष्ठेऽभ्युपगमः सत्यं पुंसां हि दुस्त्यजः ॥ १३६॥ भवतां मयि चेन्मोहः सर्वाणि प्रव्रजन्तु तत् ।। भ्रमेणापि सिताभुक्ता पित्तोपद्रवहाँरिणी॥१३७॥सप्तभिः कुलकम् १ J_H omit दृढ...मिलनोत्सुकः. २J H-कनीयया. (?) ३ JH-इष्ट०. ४ P. द्धारयेत. ५ JH- भोगवान्. ६ JH-कारिणी.