________________
प्रभावकचरिते
उवाच सोमदेवोऽपि सांप्रतं मम सांप्रतम् । त्वदीयं वकुलीनं चाचरितं दुश्चरं तपः॥१३८ ॥ त्वन्माता तु पुनः पुत्रीजामातृशिशुपालनैः । मोहवीचिं भवाम्भोधिं कथं तरति मूढधीः ॥ १३९ ॥ अथार्यरक्षितो दध्यौ यदि मिथ्यात्वमन्दिरम् । तातः कथंचिद्बुध्येत शुद्ध्येत च तपोभरैः ॥ १४०॥ तदम्बा दृढसम्पक्ववज्रवज्राकरावनिः।। बुद्धव यत्प्रभावान्मे मोक्षाध्वा प्रकटोऽभवत् ॥ १४१ ॥ रुद्रसोमामथोवाच विचारय वचः पितुः। दुर्बोध्यां मन्यते यस्त्वां खं तु ज्ञानमहानिधिम् ॥ १४२॥ त्वदादेशादृष्टिवादं पठतो मे भवोदधेः। निस्तितीर्षा स्थिता चित्ते श्रीवज्रः प्रापि च प्रभुः ॥१४३ ॥ श्रीसुनन्दा कलौ धन्या या वज्रं सुषुवे सुतम् । त्वां ततोऽप्यधिकां मन्ये मातर्गुणत एकतः ॥ १४४ ॥ ददे तयार्जवात्पूर्व पुत्ररोदनखिन्नया । पितुर्मुनेः पुनश्चके विवादस्तन्निमित्तकः ॥ १४५॥ श्रीमत्तोसलिपुत्राणां पाठायार्पि त्वया त्वहम् । उत्तितारयिषामन्तध्यात्वा संसारनीरधेः ॥१४६॥ प्राप्तः श्रीवज्रपादान्तमपुण्यैरतिदुर्लभम् । अधीतपूर्वपूर्वाङ्गः पुनरागां त्वदन्तिके ॥ १४७॥ सपरीवारया तस्मात्स्वकीयोपक्रमात्त्वया। व्रतान्महांगतः पारं प्राप्यं भवमरोर्बुवम् ॥ १४८॥ पुरोहितप्रिया प्राह वदति स्म ऋजुर्द्विजः। आर्त्या व्यग्रा कुटुम्बस्य नैषा व्रतभरक्षमा ॥ १४९॥ शीघ्र दीक्षस्व मां पूर्व परिवारोऽपि यो मयि । निबिंडस्नेहभूः सोऽपि मामनुप्रव्रजिष्यति ॥ १५० ॥ अथार्यरक्षितस्तातमाहाम्बाया वचः श्रुतम् । इह लोके भवांस्तीर्थ तत्त्वदुक्तं करोम्यहम् ॥ १५१॥ उपतस्थे च दीक्षायामहंपूर्विकया तदा।।
श्रोत्रियस्य परीवारः स्नेहादेवेतरेतरा(र)म् ॥ १५२ ॥ १J and H omit मम सांप्रतम्. २J H and-मुकु०. ३ JH मातान. ४ P दृढसम्पत्कवज्रवज्राकरावनिः. ५0 P-मातु०. ६J and H-श्रीवज्रपादान्तपुण्यैरतिदुर्लभं'. Pप्राप्तश्री. ७H and J-अधीतपूर्वः पूर्वांगः पुनरागात्त्वदंतिके. ८J andH दीर्घस्व मां. ९JH-निवडःस्नेहभूः १०J and H च वस्तीर्थ.