________________
आर्यरक्षितप्रबन्धः।
२३
अपनीय ततस्तेषां केशपालीमनालयः। सामायिकं ददौ योगपद्येन प्रणिधानतः ॥ १५३ ॥ वेशः स्थविरकल्पस्य सर्वैस्तैर्निर्विचारतः। जगृहे जीर्णभावात्तु सोमदेवस्तदावदत् ॥ १५४ ॥ वत्स कच्छाभिसंबद्धं ममास्तु परिधानकम् । नग्नैः शक्यं किमु स्थातुं स्वीयात्मजसुतापुरः॥१५५।। इत्याकर्ण्य गुरुर्दध्यौ दुष्करं चिन्त्यमस्त्यदः। अथवास्तु समाचारमादाप्योयं शनैः शनैः ॥ १५६॥ आहाथ मम तातस्याभिप्रायः परिपूर्यताम् । स च प्राह गुरुस्तेऽहं स्वाभिप्रायं वदामि तत् ॥ १५७ ॥ उपानही मम स्यातां तथा करकपात्रिका।। छत्रिकाथोपवीतं च यथा कुर्वे तव व्रतम् ॥ १५८॥ पादयोः शिरसस्तापो यथा न स्यात्तथा शुचिः। भवाम्यूढं यदाजन्म तत्त्यक्तुं हि न शक्यते ॥ १५९ ॥ अनिषिद्धानुमत्यानुमेने सूरिस्तदाग्रहम् ।। स्वाध्यायं तु स्वयं शिक्षयन्ति स्म पितरं स्वकम् ॥ १६० ।। श्राद्धानां शावरूपाणि गुरूणां शिक्षयान्यदा। चैत्येषु गच्छतः साधून् प्रणामायोपतस्थिरे ॥ १६१ ॥ सर्वानपि प्रणंस्यामो मुक्त्वा छत्रधरं मुनिम् । उपाश्रयागतोऽपृच्छदवन्द्यः किमहं पुनः॥ १६२॥ तातः किमेवं वन्द्यः स्यान्मुञ्च छत्रं तथापि हि । पटं शिरसि देयास्त्वमुष्णताप उपस्थिते ॥ १६३॥ एवं भवत्विति प्राह वृद्धः स्नेहात्सुतप्रभोः। इत्थं स त्याजितो वाग्भिस्तेनालं पादुके अपि ॥१६४॥ अनुष्णक्षणबाह्योर्वीगामिन्मुक्तपरिग्रह । उपवीतेन किं बाह्यजनप्रत्यायकेन ते॥१६५॥ इति को वा न जानाति यद्वयं द्विजसत्तमाः। एवं शनैः स गार्हस्थ्यवेषं संत्याजितस्तदा ॥ १६६॥ पूर्वरीत्यान्यदा बालाः परिधानकृतेऽवदन् । स ब्रह्मतेजसा दीप्तस्तदाह पृथुकान् प्रति ॥ १६७ ॥ नग्नो न स्यामहं यूयं मा वन्दध्वं सपूर्वजाः। स्वर्गोऽपि सोऽथ माभूयाद्यो भावी भवदर्चनात् ॥१६८ ॥ १J and H मतालयः. २-P सर्वस्तै०. ३ J & H तत्सकच्छा० ४. P प्रेतं. ५J H शिष्यया. ६J and H पह...उपस्थितम्. ७ J & H नानानस्याम्यहं...स्वर्गोपि सोप्यथ मा०.