________________
प्रभावकचरिते अन्यदाऽनशनात्साधौ परलोकमुपस्थिते । संज्ञिता मुनयो देहोत्सर्गाय प्रभुणा दृढम् ॥१६९ ॥ गीतार्था यतयस्तत्र क्षमाश्रमणपूर्वकम् । अहंप्रथमिकां चक्रुस्तत्तनूद्वहने तदा ॥ १७० ॥ कोपाभासाहुरुः प्राह पुण्यं युष्माभिरेव तत । उपार्जनीयमन्यूनं न तु नः स्वजनवजैः॥ १७१ ॥ श्रुत्वेति जनकः प्राह यदि पुण्यं महद्भवेत् । अहं वहे प्रभुः प्राह भवत्वेवं पुनः शृणु ॥ १७२॥ उपसर्गा भवन्त्यस्मिन्नुह्यमाने ततो निजम् ।। किं तातमनुमन्येऽहमस्मिन्दुष्करकर्मणि ॥ १७३॥ उपसर्गर्यदि क्षुभ्येत्तन्नः स्यादपमङ्गलम् । विज्ञायेत्युचितं यत्ते तद्विधेहि समाधिना ॥ १७४ ॥ वहिक्षाम्येव किमहं निःसत्त्वो दुर्बलोऽथवा । एतेभ्यो मामकीना तन्न कार्या काप्यनिर्वृतिः॥१७५॥ पुरा प्रत्यूहसंघातो वेदमन्त्रैर्मया हतः। समस्तस्यापि राज्यस्य राष्ट्रस्य नृपतेस्तथा ॥ १७६॥ ततः संवोढुरस्यांशे शवं शवरथस्थितम्। आचकर्षार्निवसनं शिशवः पूर्वशिक्षिताः॥ १७७॥ अन्तर्दूनोऽप्यसौ पुत्रप्रत्यूहभयतो न तत् । अमुञ्चत्तत उत्सृज्य स्थण्डिले च वले रयात् ॥ १७८ ॥ गुरुणापृच्छि किं नग्नस्तातः सोऽप्युत्तरं ददौ । उपसर्गः समुत्तस्थौ त्वदचो ह्यनृतं नहि ॥ १७९ ॥ स न्यषेधि मया दाढादेवंवादिनि तत्र च । शाटकं पृथुलं दीर्घ गृहाणेत्यथ तेऽवदन् ॥१८० ॥ तदाकर्ण्य पिता प्राह द्रष्टव्यं दृष्टमेव यत् । को नः परिग्रहस्तस्मान्नाग्न्यमेवास्त्वतः परम् ॥ १८१॥ एवंप्रायप्रपञ्चैश्चावलेपान् पर्यहापयन् । गुरवो न तु भैक्ष्येऽस्य मनः शक्ता नियोजितुम् ॥ १८२॥ एवं त्ववकरं नायं त्यजति प्रभुणापि च ।
अनेकश उपायैस्तैः सुपरिच्छेदितोऽपि सन् ॥ १८३॥ १J & H साधो परलोकमुपेयुषि । संज्ञिता मुनया देहोपसर्गाः. २J & H क्षमाश्रवणपूर्वक. ३ J & H पुनः प्राह. ४ J and H वहिष्यवामेवकिमहंति. ५J & H प्यति. ६J & H वलले. ७J and H तद्वचो नोनृतं क्वचित्. ८J and H एवं प्रथं वैश्वा०. ९J H मनः . शक्त्या नियोजितं. १० J& H एवं त्ववकरन्नायां०.