________________
आर्यरक्षितप्रबन्धः ।
२५ कदाचिदायुः क्षीयेतास्माकं तन्निस्तरिष्यति। ... कथं जरनसौ तस्माद्भिक्षां ग्राह्यः कथंचन ॥ १८४ ॥ . ध्यात्वेति शिक्षयन्ति स्म रहस्ते मुनिपुङ्गवान् । मण्डल्या नास्य दातव्य आहारो भोज्यमेककैः ॥ १८५॥ अरुच्यमपि चित्तस्य तथा ते प्रतिपेदिरे। ततो गुरुवचःश्रद्धानिष्ठेभ्योऽस्तु नमो नमः ॥ १८६॥ विहारं चक्रुरन्यत्रान्यदा ते गुरवो बहिः। मण्डल्यां यतयो न न्यमन्त्रयन्त जरन्मुनिम् ॥ १८७ ॥ यह्ने गुरव आजग्मुरार्यं च समभाषयन् । ततः प्रमन्युराहासौ श्रूयतां सुत मद्वचः॥१८८॥ दिनानि चेद्बहूनि त्वमवास्थास्यो बहिर्भुवि। . अकालेपि तदा प्राणान् पर्यत्याक्षमहं ध्रुवम् ॥ १८९ ॥ मुनयोऽमी त्वदादिष्टा अपि वाती न मामकीम् । वहन्ति हेतो! वेद्मि तन्न कस्याप्यहं प्रभो ॥१९०॥ ततस्ते कृतकक्रोधाद्विनेयानूचिरे चिरम् । तातः कथं भवद्भिर्न भोजनेन निमन्त्रितः ॥ १९१॥ ते प्राहुः पूज्यपादेभ्यो विना नः शून्यचेतसाम् । झूणं पतितमेवैतत् क्षन्तव्यं बालचेष्टितम् ॥ १९२ ॥ श्रुत्वेति तद्वचः प्राहुः सूरयः श्रूयतां पितः। न विधेया परस्याशा मूलहेतुः पराभवे ॥ १९३॥ वयं त्वदुचिताहारान्वेषणाय खयं ननु । यास्यामः कीदृशोऽमीषां पाटो व्रीडावहः स्फुटम् ॥ १९४ ॥ इत्युक्त्वा स्वयमुत्थायादाय चाथ स्वपात्रकम् । चेलुस्तावञ्च वर्षीयानाह साहसवद्वचः ॥ १९५॥ अहमेव प्रयास्यामि भिक्षायै किं मयि स्थिते । वत्स गच्छपतिस्त्वं हि भिक्षुभिक्षां भ्रमिष्यसि ॥ १९६॥ इत्युक्त्वा मंच सोत्साहं प्रतिषिद्धोपि सूरिभिः । सपात्रः संचचालासौ प्राप्तश्चेभ्यस्य मन्दिरम् ॥ १९७॥ अपद्वाराप्रविष्टोसौ भिक्षाशिक्षास्वनिष्ठितः। मूलद्वारा कथं नागा गृहिणेत्युदितस्ततः ॥ १९८॥ आयातीह शुभा लक्ष्मीरपद्वारापि धार्मिक । श्रुत्वेति स गृही दध्यौ वृद्धस्तत्कालधीरयम् ॥ १९९॥ द्वात्रिंशन्मोदकांस्तेन तुष्टेन प्रतिलाभितः।
आगत्योपाश्रये सूरेः पुरश्चौलोचयत्ततः ॥ २०० ॥ १ क्षुल्लं इति स्यात्.२ J H पाठो. ३ J and H read शिक्षासिक्षाव. ४ P-आयांतीह. ५J & H सूरिः परश्चा.