________________
२६
प्रभावकचरिते गुरुणा प्रथमे लाभे शकुनोऽत्र विचारितः। द्वात्रिंशत्संख्यया शिष्या भविष्यन्ति ममानुतः ॥ २०१॥ अपृच्छच्च पुनस्तात यदा राजकुलाद्धनम् । लब्धा ततो भुक्तशेषं दध्वं कस्य भावतः ॥२०२॥ आर्योप्याह गुणोदग्रश्रोत्रियेभ्यः प्रदीयते। सत्पात्रेभ्यो यतो दत्ता लक्ष्मीः सुकृतभूर्भवेत् ॥ २०३॥ प्रधानाः साधवोऽस्मच्च वैयावृत्यादिसहुणैः। अमीषां देहि तत्तात जन्म स्खं सफलं कुरु ॥२०४॥ बालग्ना(शा)नादिसाधूनामानीतं चेन्मयाशनम् । उपकारि(रो)भवेदेषां किं न लब्धं मयात्र तत् ॥ २०५॥ एवं वदन्नसौ वृद्धो भिक्षायामारं वहन् । परमाराध्यतां प्राप्तो गच्छे दानैकशुद्धधीः ॥२०६॥ तत्र गच्छे त्रयः पुष्पमित्राः सुत्रामतेजसः। स्वप्रज्ञाशातशास्त्रार्थाः सन्ति संतोषभूमयः ॥ २०७॥ घृतपूर्वस्तेषु पूर्वो वस्त्रपूर्वो द्वितीयकः। सुधीर्दुर्बलिकापूर्वः पुष्पमित्रस्तृतीयकः ॥ २०८ ॥ तत्राद्यपुष्पमित्रस्य लब्धिरासीच्चतुर्विधा। द्रव्यतः क्षेत्रतश्चापि कालतो भावतस्तथा ॥ २०९॥ द्रव्यतो घृतमेव स्यात् क्षेत्रतोऽवन्तिमण्डलम् । ज्येष्ठाषाढे कालतस्तु भावतोऽथ निगद्यते ॥२१०॥ दुर्गता ब्राह्मणी षड्भिर्मासैः प्रसवधर्मिणी। तद्भतेति विमृश्याज्यं भक्षित्वा संचये दधौ ॥ २११॥ ततः सा प्रसवे चाद्यश्वीने क्षुद्बाधितं द्विजम् । तद् घृतं याचमानं तं रुणझ्यन्यनिराशया ॥ २१२॥ स मुनिश्चेदर्थयेत दत्ते तदपि संमुदा।। यावद्गच्छोपयोग्यं स्यात्तावदाप्नोति भावतः॥२१३॥ वस्त्रादि पुष्पमित्रस्य प्रेक्ष्यते लक्षणं त्विदम् । द्रव्यतो लभते वस्त्रं क्षेत्रतो मथुरा पुरी ॥२१४॥ वर्षाशिशिरहेमन्ते कालतो भावतस्त्विदम् । तस्य लब्धिविशेषोयं क्षयोपशमसंभवः ॥ २१५॥ अनाथा महिला कापि कर्पासोच्चयमूल्यतः। तूलं संपिण्ड्य कर्तित्वा वानकर्मकृतां गृहे ॥ २१६ ॥
कर्म कृत्वा वेतनेन पटं तेभ्यः प्रवाययत् ।। १J & H गुणादग्र०. २. J & H बालग्लाना०. ३ JH गच्छ, ४ J & H निराशयः. ५ P-सा मुदा.