________________
आर्यरक्षितप्रबन्धः । शाटकं विपटा तेनार्थिता तमपि यच्छति ॥ २१७॥ दुर्बलः पुष्पमित्रोपि यथा लब्धं घृतं धनम् । भुनक्ति स्वेच्छयाभीक्ष्णं पाठाभ्यासात्तु दुर्बलः ॥२१८॥ स मनीषाविशेषेण गृहीतनवपूर्वकः। समभ्यस्यत्यहोरात्रं मा विस्मार्षीन्मम श्रुतम् ॥ २१९ ॥ सनाभयो दशपुरे तस्य तिष्ठन्ति विश्रुताः।। सौगतोपासकास्ते च सूरिपार्श्वे समाययुः॥ २२० ॥ ऊचुयॊष्माकधर्मेऽस्मिन् ध्यानं नास्ति स चावदत् । ध्यानमस्माकमस्तीह यत्तत्तेषां न विद्यते ॥ २२१ ॥ भौवत्कः पुष्पमित्रोयं ध्यानेनैवास्ति दुर्बलः। ते प्राहुर्मधुराहाराभावः कायाय सव्रते ॥ २२२॥ गुरुः प्रोवाच वृद्धानां प्रसादेन घृतप्लुतम् । भुंक्ते यथेच्छं सततं गुणनेन त्वयं कृशः ॥२२३॥ कुतो वः स्नेहसंपत्तिरित्युक्ते गुरुरुत्तरम् । प्रादाद्धतं पुष्पमित्रः समानयति तद् घनम् ॥ २२४॥ अथ न प्रत्ययो वस्तन्नयतामुं निजे गृहे । दिनानि कतिचिच्चास्य स्निग्धाहारं प्रयच्छत ॥ २२५॥ खयं ज्ञास्यथ सद्भावं दौर्बल्यहेतुमप्यथ । तैराहूतोप्यनुज्ञातो गुरुभिस्तदृहं ययौ ॥ २२६॥ पोष्यमाणो वराहारैरप्यसौ कृशतां भजेत् । अहर्निशमधीयानो रसास्वादं न बुध्यते ॥ २२७॥ स्वजनावि(व्य)मृशन्नस्य भुक्तं भस्मनि होमवत् । ददुर्बहुतरं ते च ततोप्यस्य न किंचन ॥ २२८ ॥ प्रेक्षिरे व्यतिरेकं ते प्रांताहारप्रदायिनः। न्यषेधयन्नध्ययने पुरावस्थांगभागभूत् ॥ २२९॥ प्रतीतास्तेन संबोधं प्राप्यन्त स्वजना निजाः । पुनरागाहुरूपान्ते शान्ते चेतसि सुस्थितः ॥ २३० ॥ तत्र गच्छे च चत्वारः प्राज्ञा मुनिमतल्लिकाः। दुर्बलः पुष्पमित्रोथ विन्ध्याख्यः फल्गुरक्षितः ॥ २३१ ॥ गोष्टामाहिलनामा च जितौशनसचेतनः। तेषां विन्ध्योऽथ मेधावी गुरून् विज्ञपयत्यदः॥ २३२॥
१JH शाकटं. २. J H समभ्यस्यहो० पीन्ममश्रुतः। ३ JH भवेत्कः. ४ J and H-स्वजनात्यमुशन्नस्य भुंक्ते; ५ J & H-omit 'ददुर्बहुत......भागभूत्.'