________________
. प्रभावकचरिते महत्यामनुयोगस्य मण्डल्यां पाठघोषतः। । स्खलति श्रुतपाठो मे पृथग्मे कथ्यतांततः॥२३३॥ त्रिभिर्विशेषकम् । सूरिराह स्वयमहं व्याख्यामि भवतः पुरः। व्याख्यानमण्डली तूलचयामि महती कथम् ॥ २३४॥ तस्मात्ते वाचनाचार्यो दुर्बलः पुष्पमित्रकः। महामतिरुपाध्यायोऽधीष्व शीघ्रं तदग्रतः॥२३५॥ एवं कृते दिने(नैः)कैश्चित्स विन्ध्योऽध्यापको गुरून् । कृतांजलि(ली) रहोऽवादीत् प्रभो शृणुत मद्वचः ॥ २३६ ॥ अहं वाचनया व्यग्रः स्वाधीतं विस्मरामि यत् । गुणने भंगपातेन तत्खिन्नः किं करोम्यहम् ॥ २३७॥ यदा स्वकगृहे प्रैषि पूज्यैर्गुणनवारणात् । तत्कृतात्स्खलितं किंचित् तदाधीतं पुरापि यत् ॥ २३८॥ यद्यतःपरमेतस्य वाचनां दापयिष्यथ । ततो मे नवमं पूर्व विस्मरिष्यत्यसंशयम् ॥ २३९॥ श्रुत्वेत्यचिन्तयत्सूरिरीदृग्मेधानिधिर्यदि । विस्मरत्यागनं तर्हि कोऽन्यस्तं धारयिष्यति ॥ २४० ॥ ततश्चतुर्विधः कार्योनुयोगोऽतः परं मया । ततोंगोपांगमूलाख्यग्रन्थच्छेदकृतागमः॥ २४१॥ अयं चरणकरणानुयोगः परिकीर्तितः। उत्तराध्ययनाद्यस्तु सम्यग्धर्मकथापरः॥२४२॥ . सूर्यप्रज्ञप्तिमुख्यस्तु गणितस्य निगद्यते । द्रव्यस्य दृष्टिवादोऽनुयोगाश्चत्वार ईदृशः२४३ त्रिभिर्विशेषकम् । विन्ध्यार्थमिति सूत्रस्य व्यवस्था सूरिभिः कृता। पुरा चैकत्रसूत्रेऽभूदनुयोगचतुष्टयम् ॥ २४४ ॥ अन्यदा मथुरापुर्यामार्यरक्षितसूरयः । तस्या भूमेरधिष्ठातुर्व्यन्तरस्याश्रयेऽवसन् ॥ २४५॥ इतश्चास्ति विदेहेषु श्रीसीमंधरतीर्थकृत् । तदुपास्त्यै ययौ शक्रोऽश्रीषीयाख्यां च तन्मनाः ॥ २४६ ॥ निगोदाख्यानमाख्याच्च केवली तस्य तत्त्वतः। इन्द्रः पप्रच्छ भरते कोऽन्यस्तेषां विचारकृत् ॥ २४७॥ अथाहत्प्राह मथुरानगर्यामार्यरक्षितः । निगोदान्मद्वदाचष्ट ततोऽसौ विस्मयं ययौ ॥ २४८॥ १JH-तूर्ण लघयामि महती कथम्. २ JH-कश्चित् संबंध्योऽध्यापको.