________________
२९
.
आर्यरक्षितप्रबन्धः । प्रतीतोऽपि च चित्रार्थ वृद्धब्राह्मणरूपभृत् । आययौ गुरुपार्वे स शीघ्रं हस्तौ च धूनयन् ॥ २४९ ॥ काशप्रसूनसंकाशकेशो यष्टिश्रिताङ्गकः। सश्वासप्रसरो विष्वग्गलच्चक्षुर्जलप्लवः॥ २५०॥ युग्मम् । एवंरूपः स. पप्रच्छ निगोदानां विचारणम् । यथावस्थं गुरुर्व्याख्यात्सोऽथ तेन चमत्कृतः॥२५१॥ जिज्ञासु नमाहात्म्यं पप्रच्छ निजजीवितम् । ततः श्रुतोपयोगेन व्यचिन्तयदिदं गुरुः ॥ २५२॥ तदायुर्दिवसैः पक्षैर्मासैः संवत्सरैरपि। तेषां शतैः सहनैश्चायुतैरपि न मीयते ॥२५३ ॥ लक्षाभिः कोटिभिः पूर्वैः पल्यैः पल्यशतैरपि । तल्लक्षकोटिभि व सागरेणापि नान्तभृत् ॥ २५४ ॥ युग्मम् । सागरोपमयुग्मे च पूर्णे ज्ञाते तदायुषि । भवान् सौधर्मसुत्रामा परीक्षां किं म ईक्षसे ॥ २५५ ॥ प्रकाश्याथ निजं रूपं मनुष्यप्रेक्षणक्षमम् । यथावृत्ते समाख्याते शक्रः स्थाने निजेऽचलत् ॥ २५६॥ प्रतीक्षिणेऽर्थिते किंचिद्यावद्यतिसमागमम् । रूपर्द्धिदर्शनैः साधुर्निदानेन न्यषेधयत् ॥२५७॥ तथापि किंचिदाधेहि चिह्नमित्यथ सोऽतनोत्। वेश्म तद्विपरीतद्वाः प्रययौ त्रिदिवं ततः ॥२५८ ॥ आयाते मुनिभिर्द्वारे नाते गुरुरुदैरयत्। विपरीतपथायाताजग्मुस्ते चातिविस्मृताः॥२५९ ॥ संभ्रमात्कि किमित्यूचिवांसस्ते बोधितास्तदा । गुरुभिर्गोत्रभृवृत्तं याथातथ्यान्निवेदितम् ॥ २६० ॥ देवेन्द्रादर्शनात् खिन्ना इव किंचित्तदावदन् । मन्दभाग्यैः कथं नाम दृश्यन्ते वासवा नरैः॥२६१ ॥ अथो विजहरन्यत्र प्रभवो मथुरां पुनः। आगतो नास्तिवादी च तं गोष्टामाहिलोऽजयत् ॥ २६२ ॥ असौ तत्रैव संघेन चतुर्मासी व्यधाप्यत । वादलब्धियुतस्ताक् केनावस्थाप्यते नहि ॥१६३॥ आर्यरक्षितसूरिश्च व्यमृशत् कः पदोचितः। ... दुर्बलः पुष्पमित्रोऽयं तद्विचारे समागमत् ॥ २६४ ॥
सूरीणां निजवर्गीया व्यमृशन् फल्गुरक्षितम् । १JH-काशप्रशस्त. २ P-व्याख्यत्. ३J H-तेषां सहस्रैः शतैश्चायुतैरपि. ४ J H-प्रतिक्षणे. ५JH-ता.