________________
३०
प्रभावकचरिते
गच्छाधिपत्ये तं गोष्टामाहिलं चात्र मोहतः ॥ २६५ ॥ कुम्भत्रितयमानायि तत्राचार्यैः सुपूरितम् । निष्पावतैलसर्पिर्भिरंथ तच्च विरेचितम् ॥ २६६ ॥ वल्लाः सर्वेऽपि निर्यातास्तैलमीषत्पुनः स्थितम् । घृतं च बहुसंलग्नं पयश्तेमामुदाहुतिम् ॥ २६७ ॥ दुर्बलेऽहं मुनौ जज्ञे शतशिंम्बिककुम्भवत् । बंन्धौ तैलकुटौपम्यो मातुले घृतकुम्भवत् ॥ २६८ ॥ तन्मत्पदेऽयमेवास्तु प्रतीष्टं तैर्गुरोर्वचः । ततो न्यवेशयत्तत्र परमाक्षरमार्हतम् ॥ २६९ ॥ ततो गुरुभिरादिष्टं दुर्बलस्य नवप्रभोः । मदीयमातुलभ्रात्रोर्वर्त्य मद्वत् पितुश्च मे ॥ २७० ॥ यैतयोऽन्येऽपि गच्छस्था गुरुभिः पितृसोदरौ । तावशिष्यन्त साध्यश्च वचोभिर्मधुरैस्तदा ॥ २७९ ॥ यूयं मयीव वर्तध्वं मत्तोऽपि विनयाधिकाः । अस्मिन् यतो (तौ) व्रताचारे स्मृते वा विस्मृतेऽपि वा ॥ २७२ ॥ अकृते वा कृते वापि तत्सर्वं ममृषे मया । पुनरेष नवत्वेनाकृतेक्षूणमवाप्स्यति ॥ २७३ ॥ युग्मम् । ततोऽस्यापर्तितं वाक्यं कार्यमेव सदोद्यतैः ।
आमृत्यु पादमूलं च न मोक्तव्यममुष्य भोः ॥ २७४ ॥ एवं गच्छव्यवस्था तैरार्यरक्षितसूरिभिः । विहिता प्रान्तकाले त्वनशनं प्रत्यपादि च ॥ २७५ ॥ निर्यामिताश्च गीतार्थैर्दैवीं भुवमुपाययुः । पृथक्करणतः सर्वानुयोगस्यानुवर्तकाः ॥ २७६ ॥ युग्मम् । श्रीपुष्पमित्रसुरिश्च गच्छं वर्तयते ततः ।
गुरुतोऽभ्यधिकां चास्य समाधिमुपपादयत् ॥ २७७ ॥ स गोष्टामाहिलस्तत्र यथाविप्रतिपत्तिभूः । निह्नवः सप्तमो जज्ञे ज्ञेयं शास्त्रान्तराद्धि तत् ॥ २७८ ॥ इत्यार्यरक्षितविभोविंशदं चरित्रं
चित्रं जगन्त्रितयपावनगाङ्गवारि ।
विद्वज्जनश्रवणकुण्डलतां प्रयात
मापुष्पदन्तरुचि नन्दतु वन्दनीयम् ॥ २७९ ॥
१JH - मोहितः २ JH - रिव ३J H - लो. ४ JH - शम्बिक
५ J H-बन्धो तेलकुटो. ६ JH - यतयोपि स्वगच्छस्था.
७ JH-क्ष.
J Hos P - का.