________________
श्रीआर्यनंदिलप्रबन्धः। श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी सोमार्षिसूनोः कथा
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गो द्वितीयोऽगमत् ॥२८०॥ ग्रन्थागं० २८५ अक्षर ११॥ उभयं ४९२ । अक्षर २२॥ ॥
श्रीआर्यनंदिलप्रबन्धः। आर्यरक्षितवंशीयः स श्रीमानार्यनन्दिलः। संसारारण्यनिर्वाहसार्थवाहः पुनातु वः ॥ १ ॥ क आर्यनन्दिलखामिगुणवर्णन ईशिता । अष्टौ कुलानि नागानां यदाज्ञां शिरसा दधुः॥२॥ यत्प्रसादेन वैरौद्या क्षमाया उपदेशतः। नागेन्द्रदयिता जशे नाममन्त्राद्विषापहा ॥३॥ किंचित्प्रस्तौमि तद्वृत्तं गुरुणा गुरुणावृतः । प्रसादेन मृगाङ्कस्थो (स्य) मृगः किं नाचते नभः ॥४॥ अस्ति स्वस्तिनिधिः श्रीमत्पद्मिनीषण्डपत्तनम् । मण्डितं सारकासारैः पद्मिनीखण्डमण्डितैः॥५॥ तत्र वित्रासिताशेषशत्रुपक्षः क्षमापतिः। पद्मप्रभाभिधः पद्मासद्मपद्मनिभाननः ॥६॥ तस्य पद्मावती कान्ता कान्ताशतशिरोमणिः । यया देहश्रिया जिग्ये कान्ता स्वर्गपतेरपि ॥७॥ तत्रामात्रश्रियां पात्रं श्रेष्टी श्रेष्ठकलानिधिः। अर्थिचातकपाथोदः पद्मदत्तोस्ति विश्रुतः ॥ ८॥ तस्य पद्मयशा नाम वल्लभाऽस्ति रतिप्रभा। पुत्रः सुत्रामपुत्राभरूपः पद्माभिधस्तयोः ॥९॥ कलाकलापसंपूर्ण तं मत्वा सार्थनायकः । वरदत्तः स्वकां पुत्रीं वैरोद्याख्यां व्यवाहयत् ॥१०॥ अन्यदा वन्यदावाग्निदुस्सहे समुपागते । अन्तप्रतिभुवि न्यक्षपक्षेषु जगतोऽशिवे ॥११॥ युतः स परिवारेण पुण्यनैपुण्यसंक्षयात् । वरदत्तः पुरं प्राप विपापः समवर्तिनः ॥ १२॥ युग्मम् । ततः प्रभृति तुच्छत्वात् श्वश्रूः शुश्रूषिताप्यलम् । वैरोद्यामवजानाति तां निष्पितृगृहामिति ॥१३॥ १ JH-क्षमया. २ P-दृ. ३ JH-प्रा. ४ JH-व.