SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३२ प्रभावकचरिते रूपं राढा(?)धनं तेजः सौभाग्यं प्रभविष्णुता । प्रभावात्पैतृकादेव नारीणां जायते ध्रुवम् ॥ १४ ॥ ततस्तद्वचनैर्द्वना विनीतानां शिरोमणिः । साहोरात्रं भजेत्कार्य कर्मोपालम्भतत्परा ॥ १५ ॥ अन्येद्युः साथ भोगीन्द्रस्वप्नसंसूचितं तदा । उवाह रत्नगर्भेव रत्नं गर्भं शुभाद्भुतम् ॥ १६॥ तृतीये मासि पूर्णे च दोहदं द्रोहदं द्विषाम् । बभार सा रसत्वाढ्या दृढं पायसभोजने ॥ १७ ॥ अथार्यनन्दिलः सूरिरुद्याने समवासरत् । साधुवृन्दवृतः सार्द्धनवपूर्वधरः प्रभुः ॥ १८ ॥ तस्यामापन्नसत्वायामपि श्वश्रूरदक्षिणा । वदन्ती कद्रदा यत्किचिदपि प्रतिकूलति ॥ १९ ॥ अस्याः कथं सुतो भावी निर्भाग्यैकशिरोमणेः । सुतैव भाविनी निष्पित्र्या या दारिद्र्यदीर्घिका ॥ २० ॥ इत्थं दुर्वचनैर्दूना साथ प्रभुपदान्तिकम् । आयाद्विमृष्य यच्चैत्यगृहं पितृगृहं न तु ॥ २१ ॥ अभिवन्द्याथ सावादीदुदश्रुः प्राग्भवे मया । प्रभो विराधिताम्बा किं यन्मेय्यति विरोधिनी ॥ २२ ॥ प्रभुराह पुराकर्मकृते दुःखसुखे जने । तत् किमन्यस्य दोषो हि दीयतेऽत्र विवेकिभिः ॥ २३ ॥ मानुषे दुर्लभे लब्धे सुखदा श्लाघ्यते क्षमा । यदस्यामादृतायां ते सर्व भावि शुभं शनैः ॥ २४ ॥ ज्ञानाज्ज्ञातो मया वत्से दोहदस्तव पायसे । अवतीर्णः ः स पुण्येन सोपि संपूरयिष्यते ॥ २५ ॥ इति वागमृतैस्तस्याविध्यायन्मन्युपावकः (१) । शीतीभूता ययौ गेहे स्मरन्ती तद्वचो हृदि ॥ २६ ॥ पुण्डरीक तपश्चैत्र पौर्णि (र्ण) मास्यामुपोषिता । व्यधात्पद्मयशास्तस्योद्यापनं च प्रचक्रमे ॥ २७ ॥ तद्दिने पायसापूर्णः प्रदीयेत पतग्रहः । गुरूणां समधर्माणां वात्सल्यं क्रियतेऽथ सा ॥ २८ ॥ तस्मिन्कृते समस्तेऽपि कदर्यानं ददे तदा । श्वश्र्वावज्ञावशाद्वध्वा धिग्दर्पं गुणदूषकम् ॥ २९ ॥ १J H - प्रतिगृहं नतु २ J & H - मय्यपि ४P - मन्युपावका. ५J H - पयसा पूर्णः . ३ P - अवतीर्णनृपुण्येन. J H - समस्तोपि.
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy