________________
श्रीआर्यनंदिलप्रबन्धः ।
वधूदोहद माहात्म्यात्किंचिच्छेषं च पायसम् । वस्त्रे वा घटे क्षिप्त्वा जलायेव बहिर्ययैौ ॥ ३० ॥ कुम्भं मुक्त्वा तरोर्मूले यावद्याति जलाश्रये । अंह्निशौचाय सद्वृत्ता क्षैरेयीस्वादतन्मनाः ॥ ३१ ॥ ततोऽलिञ्जरनागेन्द्रकान्ताप्यागाद्सातलात् । भ्रमन्ती पायसे लुब्धा तदैक्षिष्ट घटे च सा ॥ ३२ ॥ वस्त्रखण्डात्समाकृष्य बुभुजे चाथ तत्तया । पुनर्यथागतं प्रायात्पातालं नागवल्लभा ॥ ३३॥ प्रत्यावृत्तौ च वैरोद्या तदप्रेक्ष्य घटान्तरा । न शुशोच न चाकुप्यत्सा सती किंत्विदं जगौ ॥ ३४ ॥ येनेदं भक्षितं भक्ष्यं पूर्यतां तन्मनोरथः । यादृग्ममेति शान्तान्तःकरणेत्याशिषं ददौ ॥ ३५ ॥ इतश्च पन्नगेन्द्रस्य कान्तया पत्युरग्रतः । निवेदितेऽवधेर्ज्ञात्वा सर्वे तां स विगीतवान् ॥ ३६ ॥ सानुतापा ततः सापि तदुपन्नगृहस्थितेः । स्त्रियः स्वप्नं ददौ तस्याः क्षमया रञ्जिता सती ॥ ३७ ॥ यदलिंजरनागस्य प्रियाहं तनया च मे । वैरोद्या पायसं दद्या अस्या दोहदपूरकम् ॥ ३८ ॥ तथा च मद्वचः कथ्यं तैवाहं यत्पितुर्गृहम् । ध्रुवं निवारयिष्यामि श्वश्रूभवपराभवम् ॥ ३९ ॥ भोजिता पायसं भक्त्या तया सा पुण्यवर्णिनी । संपूर्ण दोहदप्रीता जीजनत्सुतमद्भुतम् ॥ ४० ॥ नागकान्तापि सूते स्म नागानां शतमुत्तमम् । वर्द्धन्ते तेजसा तेऽपि तेजः प्रतिनिभप्रभाः ॥ ४१ ॥ वैद्या नागिनीं दध्यौ नामारोपणिपर्वणि । नन्दनस्य ततोम्बाया आदेशात्पन्नगोत्तमैः ॥ ४२ ॥ वयं पितृगृहं तस्याः प्रतिश्रुत्येति मानुषे । लोके तैरेत्य तद्रेहमलञ्चक्रे ससंमदैः ॥ ४३ ॥ युग्मम् । केचिन्मतङ्गजारूढा अश्वारूढाश्च केचन । सुखासनगताः केचित्केचिन्नरविमानगाः ॥ ४४ ॥
३३
१ J H-जलाय च. २ JH - क्षैरयी. ३ P on the margin दोहदातू for भ्रमंती: JH पायासलुब्ध्वा. ४ JH - प्रत्यावृत्त्या. ५JHकरणात्या ०. ६ J H ततश्च - निवेदितोऽवधे.. ७ JH - सानुतप्य ततः साव्हेस्थिते. ८JH प्रियाहमनया० H - तेजः प्रतिनिभाप्रभाः ११ J & H - नागारोपण.
९JH - तथाहं यत्. १० J