________________
३४
प्रभावकचरिते वक्रियातिशयाद्रूपशतभाजः सुरा अथ । तद्वेश्म संकटं चक्रुः पाटकं चापि पत्तनम् ॥४५॥ केपि बाला घटे क्षिप्त्वा अपिधानावृतास्यके।। रक्षार्थमंचयों सी वैरोद्यायाः समर्पिताः॥ ४६॥ वधूपितृकुले तस्मिन्नायाते श्रीकुलाद्भुते । श्वश्रूः स्नानादिभिस्तेषां सत्कर्तुमुपचक्रमे ॥४७॥ अहो लक्ष्मीवतामेव पक्षः श्रेयान् जयीजने । यजातेयं विगीता सा तन्निजागौरवास्पदम् ॥४८॥ कयापि कर्मकर्याथ पर्वकर्मविहस्तया । अश्मन्तकस्थितस्थालीमुखे नागघटो ददे ॥ ४९ ॥ दृष्टा व्याकुलया वैरोद्यया चोत्तारितो घटः। स्नातया जननी वाक्यात्केशाद्भिः सोऽभ्यषिच्यत ॥ ५० ॥ ते तत्प्रभावतः स्वच्छास्तस्थुरेकः पुनः शिशुः । अस्पर्शाजलबिन्दूनां विपुच्छोऽजायत क्षणात् ॥ ५१ ॥ स्खलिते यत्र तत्रापि क्षुतादौ वदति स्म सा । बण्डो जीवत्विमां वाचं तस्य स्नेहेन मोहिता ॥५२॥ बन्धवो नागरूपास्ते सर्वेभ्यो ददुरद्भुतम् । क्षौमसौवर्णरत्नौघमुक्ताभरणमण्डलम् ॥५३॥ तत्र पर्वणि संपूर्णे यथास्थानं च ते ययुः। नागास्तेन प्रभावेण गौरव्यासाभवद्गृहे ॥ ५४॥ अन्यदालिञ्जरः पुत्रान्नागराजो निभालयत् । बण्डं ददर्श कोपञ्च चक्रेऽवयवखण्डनात् ॥ ५५॥ तज्ज्ञात्वावधिना गेहे वैरोद्यायाः समाययो। दंशमस्या विधास्यामि ध्रुवं मन्नन्दनद्रुहः ॥५६॥ इति संश्रवमाकर्ण्य पत्युस्तंद्रक्षणोद्यता। समागान्नागिनी भक्ता वैरोद्येति प्रवादिनी ॥ ५७ ॥ गिरेति श्रुतया पत्न्याः किञ्चिच्छान्तः परीक्षितुम् । अन्तर्गृहं कपाटस्य पश्चाद्गृढतनुः स्थितः ॥ ५८॥ प्रदोषतामसाकिचिदरिं स्थितमग्रतः। अदृष्ट्वा रभसा यान्ती सा गुल्फे पीडिता भृशम् ॥ ५९ ॥ बण्डो जीवत्विति ततो वादिनी फणभृत्पतिम् । सद्यः संतोषयामास तुष्टोऽसौ नूपुरे ददौ ॥ ६०॥ १ P-वापि पत्तनम्. २ J_H-मंबया सी. ३ JH-चोरितो घटः । ४ JH-केशाभिः. ५J H-ततः प्रभावतः स्वस्था. ६JH-प्रभावने. ७ J H-स्तद्हणो. ८ JH-दरिरिं०.