________________
श्रीआर्यनंदिलप्रबन्धः।
३५
यातायातं चानुजज्ञे तस्याः पातालवेश्मसु । तेन नागाश्च तद्गहमायान्त्यपि यथा तथा ॥ ६१ ॥ ततो बालावलामुख्योऽभवल्लोकोभयभ्रमिः। इति ख्यातं च तद्नेहं दुर्गमं नागमन्दिरम् ॥ ६२ ॥ विज्ञप्तं पद्मदत्तेन गुरूणां तद्यथातथम्। जगदुस्तेच नागानां स्ववध्वा ख्यापयेरिदम् ॥ ६३॥ अस्मद्गृहे न वैस्तव्यं जनानुग्रहकाम्यया । वस्तव्यं वा न दष्टव्यमिति कृत्यं मदाज्ञया ।। ६४॥ वैरोद्यायाः समादिष्टं त्वं गच्छाशीविषाश्रये। वक्तव्या नागिनीपुत्रा उल्लङ्घयाज्ञा हि मे नहि ॥६५॥ तया गत्वा च पाताले ज्ञापिताः फणवद्वराः। आज्ञां प्रभोस्ततो मान्यामीषामाख्ययमद्धता ॥६६॥ जीवितान्नागिनीनागशतं चास्यास्तथा पिता। आलिञ्जरश्च नागेन्द्रो विषव्यालाप्लुताम्बरः॥ ६७ ॥ अनाथाहंच सन्नाथा कृता येन सनूपुरौ । चरणौ रचितावित्याशिषं प्रादात्सुधोर्मिभाम् ॥ ६८ ॥ छत्रध्वजावृतिध्यानाद्देवदेवजिनेशितुः । पन्नगप्रेतभूताग्निचौरव्यालभयं नहि ॥ ६९ ॥ डाकिनीशाकिनीवृन्दं योगिन्यश्च निरन्तरम् । न विद्रवन्ति जैनाज्ञा यस्य मूर्धनि शेखरः॥ ७० ॥ यश्च तस्य गुरोराज्ञां वैरोद्यायास्तथा स्तवम् । नित्यं ध्यायति तस्य स्यान्नैव क्षुद्रभवं भयम् ॥ ७ ॥ गुडाज्यपायसैः स्वाद्यं बलिं ढौकयते च यः। जिनस्य जैनसाधोश्च दत्ते सा तं च रक्षति ॥ ७२ ॥ उपदेशं प्रभोरेनमाकान्येऽपि भोगिनः। उपशान्तास्तथा पूज्या वैरोद्याख्याभवत्सती ॥ ७३ ॥ नागदत्तश्च तत्पुत्रा भाग्यसौभाग्यरङ्गभूः। तत्कुलोन्नतिमाधत्त धर्मकर्मणि कर्मठः॥ ७४॥ संसारानित्यतामन्यदिने सद्गुरुगीभरात् ।। संभाव्य नागदत्तं स्खे पदेन्याधाहुणोज्ज्वलम् ॥ ७५॥ पद्मदत्तः प्रियापुत्रसहितो जगृहे व्रतम् ।
उग्रं ततस्तपस्तत्त्वा सौधर्म ससुतो ययौ ॥ ७६॥ १J H-ततो वलोवला. २J H-स्तेन नागानां स्ववधाः. ३Pवास्तव्यं. ४ JH-माज्ञा भिषामाख्यैय. ५P-वैरोद्यायास्तवं. ६JH-भुनभवं. ७ JH-उपदेशांतास्त०. ८ J-वैरोद्याख्यान०. ९ P-न्यास्थद्.