________________
३६
प्रभावकचरिते
तथा पद्मयेशाः पूज्यादेशाद्वध्वा तया सह । मिथ्यादुष्कृतमाधाय देवी तत्रैव साभवत् ॥ ७७ ॥ वैद्यापि फणीन्द्राणां ध्यानाद्धर्मोद्यता सती । मृत्वाभूद्धरणेन्द्रस्य देवी श्रीपार्श्वसेवितुः ॥ ७८ ॥ सापि प्रभोर्भक्तिमतां चक्रे साहाय्यमद्भुतम् । विषवह्नयादिभीतानां दधात्युपशमं ध्रुवम् ॥ ७९ ॥ श्री आर्यनन्दिलः स्वामी वैरोद्यायाः स्तवं तदा । नमकुणजिणं पासमिति मन्त्रान्वितं व्यधात् ॥ ८० ॥ एकचित्तः पठेन्नित्यं त्रिसंध्यं य इमं स्तवम् । विषाद्युपद्रवाः सर्वे तस्य न स्युः कदाचन ॥ ८१ ॥ ये वैरोद्याख्यानमेतत्पवित्रम् क्षान्त्यक्षीणश्रेयसां मूलशाला । श्रुत्वा मर्त्या ये क्षमामाद्रियेरन् तेषां स्वर्गे नापि मोक्षो दुरापः ॥ ८२ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीनन्दिलाख्यानकं
श्रीप्रद्युनमुनीन्दुना विशदितः शृङ्गस्तृतीयोऽजनि ॥ ८३ ॥ प्रभो श्री प्रद्युत्रभिनवरसधाराधरविनाभवन्तं सर्वक्षरविषयतृष्णातरलितम् सुलम्भान्यश्रीमद्भुवननिरपेक्षं विंशदने
गिरीं सारैः शिष्यं ननु धिनु निजं चातकशिशुम् ॥ ८४ ॥ अक्षर २४ ॥ उभयं ५७७ ॥
श्रीकालकसूरिप्रबन्धः ४
श्रीसीमंधरतीर्थेशविदितोऽणुतो गुणान् । कुतश्चिदपि सोऽव्याद्वः कालकः सूरिकुञ्जरः ॥ १ ॥ प्राच्यैर्बहुश्रुतैर्वृत्तं यस्य पर्युषणाश्रयम् ।
आतं कीर्त्यते किं न शकटी शकटानुगा ॥ २ ॥
नरस.
१ P - पद्मजसा २P - दैवी. ३ JH-मुनीद्राणां ४ P - चुम्नाभिघ५J H- विददतै. ६ P - गिरासारै. P - ग्रन्थाग्र उभय ५७७ अ ४८ इति श्रीनंदिलाचार्यप्रबंधस्तृतीयः । ७JH - ननणुतोगुणात्.