________________
श्रीकालकसूरिप्रबन्धः। श्रीधारावासमित्यस्तिनगरं नगरोजयी (?)। द्विजिह्वास्यसमुद्गीर्णो यत्र साधुवचोऽमृतैः॥ ३॥ आशशाङ्कं बलं वाढ्या (?) महाबलभरोच्छ्रिता । कीर्तिः पताकिका यस्याक्रान्तव्योमा गुणाश्रया ॥ ४॥ युग्मम् । श्रीवीरसिंह इत्यस्ति राजा विक्रमराजितः। यत्प्रतापो रिपुस्त्रीणां पत्रवल्लीरशोषयत् ॥५॥ तस्य श्रीशेषकान्तेव कान्तास्ति सुरसुन्दरी। उत्पत्तिभूमिर्भद्रस्य महाभोगविराजिता ॥६॥ जयन्त इव शक्रस्य शशाङ्क इव वारिधेः। कालकोकालकोदण्डखण्डितारिः (?) सुतोऽभवत् ॥ ७॥ सुता सरस्वती नाम्ना ब्रह्मभूर्विश्वपावना। यदागमात्समुद्रोऽपि गुरुः सर्वाश्रयोऽभवत् ॥ ८ ॥ कालकोऽश्वकलाकेलिकलनायान्यदा बहिः । पुरस्य भुवमायासीदनायासी हयश्रमे ॥९॥ तत्र धौरितकात् प्लुत्या वल्गितेनापि वाहयन् । उत्तेजितालसद्गत्या हयानुत्तेरितादपि ॥१०॥ श्रान्तस्तिमितगन्धर्वो गन्धर्व इव रूपतः।। अशृणोन्मसृणोदारं स्वरमाराममध्यतः ॥ ११ ॥ अथाह मन्त्रिणं राजपुत्रः कीदृक् खरो ह्यसौ। मेघगर्जितगम्भीरः कस्य वा ज्ञायतां ततः ॥१२॥ व्यजिज्ञपत्स विज्ञाय नाथ सूरिर्गुणाकरः । प्रशान्तपावनी मूर्ति विभ्रद्धर्म दिशत्यसौ ॥ १३ ॥ विश्राम्यद्भिर्नृपारामे श्रूयतेऽस्य वचोऽमृतम् । अस्त्वेवमिति सर्वानुज्ञाते तत्राभ्यगादसौ ॥ १४ ॥ गुरुं नत्वोपविष्टे च विशेषादुपचक्रमे । धर्माख्यां योग्यतां ज्ञात्वा तस्य ज्ञानोपयोगतः॥१५॥ धर्माहदुरुतत्त्वानि सम्यग्विज्ञाय संश्रयः। ज्ञानदर्शनचारित्ररत्नत्रयविचारकः॥१६॥ धर्मो जीवदयामूलः सर्वविद्देवताजिनः । ब्रह्मचारी गुरुः संगभङ्गभूरागभङ्गभित् ॥ १७ ॥ १ P-श्रीधरावास. २ P-आशाकंबा(ठा)वलंवाढ्या महाबलभरोच्छ्रिता. ३ P-वैरिसिं. ४ J H-कांतवकंतास्ति० ५ J_H कायोन्यदा. ६J धौ. रितकोप्लुत्या वल्गिते. म-धौरितकोप्लुत्या वल्गिते नापि वादयत्. ७P-संश्रियः margin श्रयं.