________________
प्रभावकचरिते
mM
व्रतपञ्चकसंवीतो यतीनां संयमाश्रितः। दशप्रकारसंस्कारो धर्मः कर्मच्छिदाकरः ॥ १८॥ य एकदिनमप्येकचित्त आराधयेदमुम् । मोक्षं वैमानिकत्वं वा स प्राप्नोति न संशयः ॥ १९ ॥ अथो गृहस्थधर्मश्च व्रतद्वादशकान्वितः। दानशीलतपोभावभङ्गीभिरभितः शुभः ॥२०॥ स सम्यक्पाल्यमानश्च शनैर्मोक्षप्रदो नृणाम् । जैनोपदेश एकोऽपि संसाराम्भोनिधेस्तरी ॥२१॥ श्रुत्वेत्याह कुमारोऽपि मंगिनी मंगिनी (?) दिशः। दीक्षां मोक्षं यथाज्ञानवेलाकूलं लभे लघु ॥२२॥ पितरौ स्वावनुज्ञाप्यागच्छतस्तस्तु चिन्तितम् । अत्यादरेण तत्कृत्वागाजाम्या सहितस्ततः॥२३॥ प्रवज्यादायि तैस्तस्य तया युक्तस्य च स्वयम् । अंधीती सर्वशास्त्राणि स प्रज्ञातिशयादभूत् ॥ २४॥ स्वपट्टे कालकं योग्यं प्रतिष्ठाप्य गुरुस्ततः । श्रीमान् गुणाकरः सूरिः प्रेत्यकार्याण्यसाधयत् ॥२५॥ अथ श्रीकालकाचार्यों विहरन्नन्यदा ययौ । पुरीमुजयिनीं वाह्यारामेऽस्याः समवासरत् ॥२६॥ मोहान्धतमसे तत्र मनानां भव्यजन्मिनाम् । सम्यगर्थप्रकाशेऽभूत्प्रभूष्णुर्मणिदीपवत् ॥२७॥ तत्र श्रीगर्दभिल्लाख्यः पुर्या राजा महाबलः। कदाचित्पुरवाह्योा कुर्वाणो राजपाटिकाम् ॥ २८ ॥ कर्मसंयोगतस्तत्र वजन्तीमैक्षत स्वयम् । जामि कालकसूरीणां काको दधिघटीमिव ॥ २९ ॥ युग्मम् । हा रक्ष रक्ष सोदर्य क्रन्दन्ती करुणं स्वरम् । अपाजीहरदत्युग्रकर्मभिः पुरुषैः स ताम् ॥३०॥ साध्वीभ्यस्तत्परिज्ञाय कालकप्रभुरप्यथ । स्वयं राजसमज्यायां गत्वावादीत्तदग्रतः॥३१॥ वृत्तिर्विधीयते कच्छे रक्षायै फलसंपदः । फलानि भक्षये झैवाख्येयं कस्याग्रतस्तथा ॥ ३२॥ १J-मंगिनी दिशा, H मंगिनी मंगिनी दिशा. २ P-तत्ते. ३ Pप्रवृज्या. ४ JH-अधीत०. ५ J H-स्वे० ६J H-पुरिमुज्जयिनीवाह्या०. ७ P-जामिकालक०. ८J H-omit अथ. ९J H-भक्षयित्सैख्येयं.