________________
श्रीकालकसूरिप्रबन्धः ।
राजन् समग्रवर्णानां दर्शनानां च रक्षकः । त्वमेव तन्न ते युक्तं देर्यनिव्रतलोपनम् ॥ ३३॥ उन्मत्तकभ्रमोन्मत्तवदुन्मत्तो नृपाधमः । न मानयति गामस्य म्लेच्छ (व) द्वंसते तथा ॥ ३४ ॥ संघेन मन्त्रिभिः पौरैरपि विज्ञापितो दृढम् । अवाजीगणदारूढो मिथ्यामोहे गलन्मतिः ॥ ३५ ॥ प्राकृक्षात्रतेज आचार्य उन्निद्रमभजत्ततः । प्रतिज्ञां विदधे घोरां तदा कातरतापिनीम् ॥ ३६ ॥ जैनापभ्राजिनां ब्रह्मबालप्रमुखघातिनाम् । अर्हद्विम्बविहन्तॄणां लिप्येहं पाप्मना स्फुटम् ॥ ३७॥ न चेदुच्छेदये शीघ्रं सपुत्रपशुबान्धवम् । अन्यायकर्दमक्रोडं विब्रुवन्तं नृपब्रुवम् ॥ ३८ ॥ युग्मम् । असंभाव्यमिदं तत्र सामान्यजनदुष्करम् । उक्त्वा निष्क्रम्य दम्भेनोन्मत्तवेषं चकार सः ॥ ३९ ॥ एकाकी भ्रमति स्मायं चतुष्के चत्वरे त्रिके । असम्बद्धं वदन् द्वित्रिश्चेतनाशून्यवत्तदा ॥ ४० ॥ गर्द्दभिल्लो नरेन्द्रश्चेत्ततस्तु किमतः परम् । यदि देशः समृद्धोस्ति ततस्तु किमतः परम् ॥ ४१ ॥ वदन्तमिति तं श्रुत्वा जनाः प्राहुः कृपाभरात् । स्वसुर्विरहितः सूरिस्तादृग्ग्रहिलतां गतः ॥ ४२ ॥ युग्मम् । दिनैः कतिपयैस्तस्मान्निर्ययावेक एव सः । पश्चिमां दिशमाश्रित्य सिन्धुतीरमगाच्छनैः ॥ ४३ ॥ शाखिदेशश्च तत्रास्ति राजानस्तत्र शाखयः । शैकापराभिधाः सन्ति नवतिः षट्ड्निरर्गला ॥ ४४ ॥ तेषामेकोधिराजोस्ति सप्तलक्षतुरङ्गमः । तुरङ्गायुतमानाश्चापरेपि स्युर्नरेश्वराः ॥ ४५ ॥ एको माण्डलिकस्तेषां प्रेक्षि कालकसूरिणा । अनेककौतुकप्रेक्षाहुतचित्तः कृतोऽथ सः ॥ ४६ ॥ असौ विश्वासतस्तस्य वयस्यति तथा नृपः । तं विना न रतिस्तस्य तं बहूक्तैर्यथाक्षणम् ॥ ४७ ॥ सभायामुपविष्टस्य मण्डलेशस्य सूरिणा । सुखेन तिष्ठतो गोष्टयां राजदूतः समाययौ ॥ ४८ ॥ प्रवेशितश्च विज्ञेप्तेः प्रतीहारेण सोऽवदत् । प्राचीनरूढितो भक्त्या गृह्यतां राजशासनम् ॥ ४९ ॥ १J H - दर्शन. २ J H-लेच्छ द्वंसते. ३ J H - चेतनाः शून्य. ४ P - शकाः पराभिधाः ५J H - विज्ञापू
३९