________________
१०
प्रभावकचरिते असिधेनुं च भूयोऽथ तद्गृहीत्वाशु मस्तके । उर्बीभूयाथ संयोज्य वाचयामास च स्वयम् ॥ ५० ॥ इति कृत्वा विवर्णास्यो वक्तुमप्यक्षमो नृपः। विलीनचित्तः श्यामाङ्गो निःशब्दाषाढमेघवत् ॥ ५१ ॥ पृष्टश्चित्रान्मुनीन्द्रेण प्रसादे स्वामिनः स्फुटे। आयाते प्राभृते हर्षस्थाने किं विपरीतता ॥५२॥ तेनोचे मित्र कोपोऽयं न प्रसादः प्रभोर्ननु । प्रेष्यं मया शिरश्छित्वा स्वीयं शस्त्रिकयानया ॥ ५३॥ एवं कृते च वंशे मे प्रभुत्वमवतिष्ठते । नो चेद्राष्ट्रस्य राज्यस्य विनाशः समुपस्थितः॥५४॥ शस्त्रिकायामथैतस्यां षण्णवत्यङ्कदर्शनात् ।। मन्ये षण्णवतेः सामन्तानां क्रुद्धो धराधिपः॥ ५५ ॥ सर्वेऽपि गुप्तमाह्वाय्य सूरिभिस्तत्र मेलिताः। तरीभिः सिन्धुमुत्तीर्य सुराष्ट्रान्ते समाययुः ॥५६॥ घनागमे समायाते तेषां गतिविलम्बके । विभज्य षण्णवत्यंशैस्तं देशं तेऽवतस्थिरे ॥५७ ॥ राजानस्ते तथा शूरा वाहिनीव्यूहवृद्धिना। राजहंसगुहा भूयस्तरवारितरङ्गिणा ॥ ५८ ॥ साध्वी साध्वी त्वया पाप श्येनेन चटकेव यत् । समारुध्यन्त मेघेन बलिष्ठेनेव शत्रुणा ॥ ५९॥ निर्गमय्यांसनादुग्रदु(मु)पसर्गमुपस्थितम् । प्रापुर्घनात्ययं मित्रमिवाब्जास्यविकाशकम् ॥ ६० ॥ परिपक्रिमवाक्शालिः प्रसीदत्सर्वतोमुखः।। अभूच्छरदृतुस्तेषामानन्दाय सुधीरिव ॥ ६१॥ सूरिणाथ सुहृद्राजा प्रयाणेऽजल्प्यत स्फुटम् । स प्राह शंबलं नास्ति येन नो भावि शंबलम् ॥ ६२॥ श्रुत्वेति कुम्भकारस्य गृह एकत्र जग्मिवान् । वह्निना पच्यमानं चेष्टकापाकं ददर्श च ॥ ६३॥ कनिष्ठिकानखं पूर्ण चूर्णयोगस्य कस्यचित् । आक्षेपात्तत्र चिक्षेपाक्षेप्यशक्तिस्तदा गुरुः॥ ६४॥ विध्यातेऽत्र ययावने राशःप्रोवाच यंत्सखे। विभज्य हेम गृहीत यात्रासंवाहहेतवे ॥ ६५ ॥ १P-मस्तकैः. २ P-वंशे नः. ३ JH क्षुद्रो. ४ JH तरिभिः ५P_ विभज्यः. ६J & H-निर्गथ्यासनादुग्रमुपसग्रमुपस्थितम् , & निर्गमथ्यासनादुप्रमुपसग्रमुपस्थितम् । ७ P-कनिष्टिकानखः ८JH क्षेपाक्षेप्य. ९J Hविध्यातोत्र. १०J&H-यन्मुखे.