________________
४१
श्रीकालकसूरिप्रबन्धः |
तथेत्यादेशमाधाय तेऽकुर्वन् पर्व सर्वतः । प्रस्थानकं गजाश्वादिसैन्यपूजनपूर्वकम् ॥ ६६ ॥ पञ्चाललाटदेशेशभूपान् जित्वाथ सर्वतः । शका मालवसंधि ते प्रापुराक्रान्तविद्विषः ॥ ६७ ॥ श्रुत्वापि बैलमागच्छन् विद्यासामर्थ्यगर्वितः । गईभिल्लनरन्द्रो न पुरी दुर्गमसज्जयत् ॥ ६८ ॥ अथाप शाखिसैन्यं च विशालातलमेदिनीम् । पतङ्गसैन्यवत्सर्वं प्राणिवर्गभयंकरम् ॥ ६९ ॥ मध्यस्थो भूपतिः सोऽथ गर्दभीविद्यया बैलैः । नादर्युन्मादरीतिस्थः सैन्यं सज्जयतिस्म न ॥ ७० ॥ कपिशीर्षेषु नोटिं वा कोट्टकोणेषु नधसाः । विद्याधरीषु नो काण्डपूरणं चूरणं द्विषाम् ॥ ७१ ॥ न वा भटकपाटानि पूःप्रतोलीष्वसञ्जयत् । इति चारैः परिज्ञाय सुहृद्भूपं जगौ गुरुः ॥ ७२ ॥ अनावृतं समीक्ष्येदं दुर्गमाभूरनुद्यमः । यदष्टमीचतुर्दश्योरर्चयत्येष गर्दभीम् ॥ ७३ ॥ अष्टोत्तरसहस्रं च जपत्येकाग्रमानसः । शब्दं करोति जापान्ते विद्या सा रासभी निभात् ॥ ७४ ॥ तंबू ( फू) त्कारखरं घोरं द्विपदो वा चतुष्पदः । यः शृणोति स वक्रेण फेनं मुंचन् विपद्यते ॥ ७५ ॥ अर्द्धतृतीयगव्यूत (ति) मध्ये स्थेयं न केनचित् । आवासान् विरलान् दत्वा स्थातव्यं सबलैर्नृपैः ॥ ७६ ॥ इत्याकर्ण्य कृते तत्र देशे कालकसद्गुरुः । सुभटानां शतं साष्टं प्रार्थयच्छब्दवेधिनाम् ॥ ७७ ॥ स्थापिताः स्वसमीपे ते लब्धलक्षाः सुरक्षिताः । स्वरकाले मुखं तस्या बभ्रु (भौ) ब (बा) णैर्निषङ्गवत् ॥ ७८ ॥ सा मूर्ध्नि गर्छभिल्लस्य कृत्वा विण्मूत्रमर्ष्यया । हत्वा च पादघातेन रोषेणान्तर्दधे खरी ॥ ७९ ॥ अबलोयमिति ख्यापयित्वा तेषां पुरो गुरुः । समग्रसैन्यमानीयमानीतां दुर्गमाविशत् ॥ ८० ॥ पातयित्वा धृतो बच्वा प्रपात्य च गुरोः पुरः । गर्दभिल्लो भटैर्मुक्तः प्राह तं कालको गुरुः ॥ ८१ ॥
१ P - प्रास्थानिक. २ P - राष्ट्रेश. ३ JH - तलमागच्छन्. ४J Hविशाललात. ५ P– विद्ययाबले. ६JH - अर्द्ध तृतीये. ७P - मानीतदुर्ग. ८ P - कालक प्रभुः.