________________
प्रभावकचरिते बलभिद्धनुरुल्लासवता चाशुगतीभृता। नीता गुरुविनीतापि तत्कर्मकुसुमं ह्यदः ।। ८२ ॥ फलं तु नरकः प्रेत्य तद्विबुध्याधुनापि हि । उपशान्तः समादत्व प्रायश्चित्तं शुभावहम् ॥ ८३॥ आराधय परं लोकं भविता रुचितं निजम् ।। विधेहीति श्रुते नस्त्यक्तोऽरण्ये ततोऽभ्रमत् ॥ ८४॥ व्याघ्रण भक्षितो भ्राम्यन् दुर्गतो दुर्गतिं गतः । तादृक्साधुदुहामीहक् गतिरित्यल्पकं फलम् ॥ ८५॥ . सूरेरादेशतो मित्रं भूयः स्वामी ततोऽभवत् । विभज्य देशमन्येऽपि तस्थुः शाखिनराधिपाः ॥ ८६ ॥ आरोपिता व्रते साध्वी गुरुणाथ सरस्वती। आलोचितप्रतिक्रान्ता गुणश्रेणिमवाप च ॥८७॥ विद्यादेव्यो यतः सर्वा अनिच्छुस्त्रीव्रतच्छिदः। कुप्यन्ति रावणोऽपीटक्सीतायां न दधौ हठम् ॥ ८८ ॥ एतादृक् शासनोन्नत्या जैनतीर्थ प्रभावयन् । . बोधयन् शाखिराजांश्च कालकः सूरिराष्ट्र बभौ ॥ ८९॥ शकानां वंशमुच्छेद्य कालेन कियतापि हि। राजा श्रीविक्रमादित्यः सार्वभौमोपमोऽभवत् ॥९०॥ स चोन्नतमहासिद्धिः सौवर्णपुरुषोदयात् । मेदिनीमनृणां कृत्वाचीकरद्वत्सरं निजम् ॥९१॥ ततो वर्षशते पञ्चत्रिंशता साधिके पुनः। तस्य राज्ञोऽन्वयं हत्वा वत्सरः स्थापितः शकैः ॥९२॥ इति प्रसङ्गतोऽजल्पि प्रस्तुतं प्रोच्यते ह्यदः। श्रीकालकः प्रभुर्देशे विजहे राजपूजितः॥९३॥ इतश्चास्ति पुरं लाटललाटतिलकप्रभम् । भृगुकच्छं नृपस्तत्र बलमित्रोऽभिधानतः ॥९४ ॥ भानुमित्राग्रजन्मासीत्स्वस्रीयः कालकप्रभोः। स्वसा तयोश्च भानुश्री बलभानुश्च तत्सुतः॥९५॥ युग्मम् । अन्यदा कालकाचार्यवृत्तं तैर्लोकतः श्रुतम्। तोषादाहूतये मन्त्री तैर्निजःप्रेष्यत प्रभोः॥९६॥ विहरन्तस्ततस्ते चाप्रतिबद्धं विबुद्धये ।। 9 P-aeito. H also but here at is correction of aft. २J H-उपशान्तसमादित्स्व. ३ JH-आराधकः परं लोकम्. ४J & H-ब for ख. ५J H-विद्यादेव्यो जितः सर्वा अनिच्छुः स्त्रीव्रतच्छिदः. ६ P-श्रीकालकप्रभुः. ७JH-चार्यवृत्तं ते लोकतः. ८J & H मन्त्रितैfast: and higaatst:. respectively.