________________
४३
श्रीकालकसूरिप्रबन्धः । आययुनगरे तत्र बहिश्च समवासरन् ॥ ९७॥ राजा श्रीबलमित्रोऽपि ज्ञात्वाभिमुखमभ्यगात् । उत्सवातिशयात्सूरिः प्रवेशं विदधे मुदा ॥९८॥ उपदेशामृतस्तत्र सिञ्चन्भव्यानसौ प्रभुः। पुष्करावर्तवत्तेषां विश्वं तापमनीनशत् ॥ ९९ ॥ श्रीमच्छकुनिकातीर्थस्थितं श्रीमुनिसुव्रतम् । प्रणम्य तच्चरित्राख्यादिभिर्नुपमबोधयत् ॥ १००॥ अन्येास्तत्पुरोधाश्च मिथ्यात्वग्रहसब्रहः। कुविकल्पवितण्डाभिर्वदन्वादे जितः स तैः ॥ १०१॥ ततोऽनुकूलवृत्त्याथ तं सूरिमुपसर्पयन् । उवाच दम्भभक्त्या स राजानमृजुचेतसम् ॥ १०२॥ नाथामी गुरवो देवा इव पूज्या जगत्यपि । एतेषां पादुकाः पुण्या जनैर्धार्याः स्वमूर्धनि ॥ १०३॥ किश्चिद्विज्ञप्यते लोकभूपालानां हितं मया। अवधारय तच्चित्ते भक्तिश्चेन्मानुजे गुरौ ॥ १०४ ॥ विशतां नगरान्तर्यच्चरणा बिम्बिताः पथि । उल्लङ्घन्यन्ते जनैरन्यैः सामान्यैस्तदधं बहु ॥ १०५॥ धर्मार्जनं तनीयोऽत्र परं कुरु महामते। प्रतीत आर्जवाद्राजा प्राहास्ते संकटं महत् ॥१०६॥ विद्वांसो मातुलास्तीर्थरूपाः सर्वार्चिता इमे। तथा वर्षा अवस्थाप्य पार्यन्ते प्रेषितुं किमु ॥ १०७॥ द्विजः प्राह महीनाथ मन्त्रये ते हितं सुखम् । तव धर्मो यशस्ते च प्रयास्यन्ति स्वयं सुखात् ॥ १०८ ॥ नगरे डिण्डिमो वाद्यः सर्वत्र स्वामिपूजिताः। प्रतिलाभ्या वराहारैर्गुरवो राजशासनात् ॥ १०९ ॥ आहारमाध्य(१)कर्मादि दृष्ट्वानेषणयान्वितम् । स्वयं ते निर्गमिष्यन्ति काप्यश्लाघा न ते पुनः॥११०॥ अस्त्वेवमिति राज्ञोक्ते स तथेति व्यधात्पुरे । अन्वेषणां च ते दृष्ट्वा यतयो गुरुमभ्यधुः॥१११॥ प्रभोः सर्वत्र मिष्टान्नाहारः संप्राप्यतेतराम् । गुरुराहोपसर्गोऽयं प्रत्यनीकादुपस्थितः ॥११२॥
गन्तव्यं तत्प्रतिष्ठानपुरे संयमयात्रया। १JH-नृपमवोचत. २J H-राजानं मृदुचेतसम्. ३ JH-तथामी ......पादुकाः पुण्यजनैर्धार्या स्व०. ४ JH °त्रापरं. ५ P-षणयाश्रितम्. ६JH- इहोपस.