________________
४४
प्रभावकचरिते
श्रीसातवाहनो राजा तत्र जैनो दृढव्रतः ॥ ११३ ॥ ततो यतिद्वयं तत्र प्रैषि सङ्घाय सूरिभिः । प्राप्तेष्वस्मासु कर्त्तव्यं पर्वपर्युषणं ध्रुवम् ॥ ११४॥ तौ तत्र सङ्गतौ संघमानितौ वाचिकं गुरोः । तत्राकथयतां मेने तेनैतत्परया मुदा ॥ ११५ ॥ श्रीकालकप्रभुः प्राप शनैस्तन्नगरं ततः । श्रीसातवाहनस्तस्य प्रवेशोत्सवमातनोत् ॥ ११६ ॥ उपपर्युषणं तत्र राजा व्यज्ञपयद्गुरुम् ।
अत्र देशे प्रभो भावी शक्रध्वजमहोत्सवः ॥ ११७ ॥ नभस्यशुक्लपञ्चम्यां ततः षष्ठयां विधीयताम् । स्वं पर्व नैकचित्तत्त्वं धर्मे नो लोकपर्वणि ॥ ११८ ॥ प्रभुराह प्रजापाल पुरार्हद्गुणभृद्गणः । पञ्चमीं नात्यगादेतत्पर्वास्मगुरुगीरिति ॥ ११९ ॥ कम्पते मेरुचूलापि रविर्वा पश्चिमोदयः । नातिक्रमति पर्वेदं पञ्चमीरजनीं ध्रुवम् ॥ १२० ॥ राजावदच्चतुर्थ्यां तत्पर्वपर्युषणं ततः । इत्थमस्तु गुरुः प्राह पूर्वैरप्याहतं ह्यदः ॥ १२१ ॥ अर्वागपि यतः पर्युषणं कार्यमिति श्रुतिः । महीनाथस्ततः प्राह हर्षादेतत्प्रियं प्रियाम् ॥ १२२ ॥ यतः कुहूदिने पर्वोपवासो पौषधर्त्विताः । अन्तःपुरपुरन्ध्रयो मे पक्षादौ पारणाकृतः ॥ १२३ ॥ तत्राष्टमं विधातॄणां निर्ग्रन्थानां महात्मनाम् । भवतु प्राशुकाहारैः श्रेष्ठमुत्तरपारणम् ॥ १२४ ॥ उवाच प्रभुरप्येतन्महादानानि पञ्च यत् । निस्तारयन्ति दत्तानि जीवं दुष्कर्मसागरात् ॥ १२५ ॥ पथश्रान्ते तथाग्लाने कृतलोचे बहुश्रुते । दानं महाफलं दत्तं तथा चोत्तरपारणे ॥ १२६ ॥ ततः प्रभृति पञ्चम्याश्चतुर्थ्यामागतं ह्यदः । कषायोपशमे हेतुः पर्वसांवत्सरं महत् ॥ १२७ ॥ श्रीमत्कालकसूरीणामेवं कत्यपि वासराः ।
जग्मुः परमया तुष्ट्या कुर्वतां शासनोन्नतिम् ॥ १२८ ॥
१J H - जैनदृढव्रतः. २.J H - संघमानी तौ .
३ P - विज्ञपय.
४ I H-धर्मो. ५ JH - प्रियं प्रियम्. ६ 5 H - स्थिता. ७P - निग्रं.
← JH - पंचम्याचतु.
८