________________
४५
श्रीकालकसूरिप्रबन्धः। अन्येयुः कर्मदोषेण सूरीणां तादृशामपि । आसन्नविनयाः शिष्या दुर्गतौ दोहदप्रदाः ॥ १२९ ॥ अथ शय्यातरं प्राहुः सूरयो वितथं वचः। कर्मबन्धनिषेधाय यास्यामो वयमन्यतः ॥ १३०॥ त्वया कथ्यममीषां च प्रियकर्कशवाग्भरैः। शिक्षयित्वा विशालायां प्रशिष्यान्ते ययौ गुरुः ॥१३१ ॥ इत्युक्त्वागात्प्रभुस्तत्र तद्विनेयाः प्रगे ततः। अपश्यन्तो गुरूनूचुः परस्परमवाङ्मुखाः॥१३२॥ एष शय्यातरः पूज्यशुद्धिं जानाति निश्चितम् । एष दुर्विनयोऽस्माकं शाखाभिर्विस्तृतोऽधुना ॥१३३ ॥ पृष्टस्तैः स यथौचित्यमुक्त्वोवाच प्रभुस्थितिम् । ततस्ते संचरन्ति स्मोजयनी प्रति वेगतः ॥ १३४॥ गच्छन्तोऽध्वनि लोकैश्चानुयुक्ता अवदन्मृषा । पश्चादग्रस्थिता अग्रे पश्चात्स्थाः प्रभवो ननु ॥ १३५॥ यान्तस्तन्नाम शृङ्गारात्पथि लोकेन पूजिताः।। नारीसेवकशिष्याणामवज्ञा स्वामिनं विना ॥१३६॥ इतः श्रीकालकः सूरिर्वत्रवेष्टितरत्नवत् । यत्याश्रये विशालायां प्राविशच्छन्नदीधितिः ॥ १३७ ॥ प्रशिष्यः सागरः सूरिस्तत्र व्याख्याति चागमम् । तेन नो विनयः सूरेरभ्युत्थानादिको दधे ॥ १३८ ॥ तत ईयाँ प्रतिक्रम्य कोणे कुत्रापि निर्जने । परमेष्ठिपरावर्त्त कुर्वस्तस्थावसङ्गधीः ॥ १३९ ॥ देशनानन्तरं भ्राम्यस्तत्रेत्य सूरिराह च । किंचित्तपोनिधे जीर्ण पृच्छ सन्देहमादृतः ॥ १४०॥ अकिंचिज्ज्ञो जरत्त्वेन नावगच्छामि ते वचः॥ तथापि पृच्छये नाहं संशयोपगमक्षमः॥१४१॥ अष्टपुष्पीमथो पृष्ठो दुर्गमा सुगमामिव ।। गर्वाद्यत्किचनव्याख्यादनादरपरायणः ॥ १४२॥ दिनैः कैश्चित्ततो गच्छ आगच्छत्तदुपाश्रयम् । सूरिणाभ्युत्थितोऽवादीहुरवोऽग्रे समाययुः ॥१४३॥ वास्तव्या अवदन् वृद्धं विनैकं कोऽपि नाययौ । तेवागच्छत्सु गच्छोऽभ्युदस्थात्सूरिश्च सत्रपः ॥ १४४ ॥ १ P-शिय्यातरं. २ P-गुरुर्ययौ. ३ P-गच्छतो...श्चानयुक्ता. ४J H-यान्तस्तनम. ५P नारीशवक. ६ JH-इति P वस्त्रे. ७ Hइ. ८ P-तत्रत्यसूरि. ९ P-व्याख्यादः. १० JH-वागमत्सु.