________________
प्रभावकचरिते
गुरूनक्षमयद्गच्छः पल्लग्नः सूरिररप्यभूत् । तं च तं चानुशिष्यते सूरिमित्थमबोधयन् ॥ १४५ ॥ सिकतासंभृतः प्रस्थः स्थाने स्थाने विरेचितः। रिक्ते तत्रावदद्वत्स दृष्टान्तं विद्ध्यमूदृशम् ॥ १४६॥ श्रीसुधर्मा ततो जम्बूः श्रुतकेवलिनस्ततः। षट्स्थाने पतितास्ते च श्रुते हीनत्वमाययुः ॥ १४७॥ ततोऽप्यनुप्रवृत्तेषु न्यूनं न्यूनतरं श्रुतम् ।। अस्मद्रुषु यादृक्षं ताङ्ग मयि निष्प्रभे ॥१४८॥ यादृग्मे त्वहुरोस्तन्न यादृक्तस्य न तेऽस्ति तत् । सर्वथा मा कृथा वत्स गर्व सर्वकषं ततः ॥ १४९ ॥ अष्टपुष्पी च तत्पृष्टः प्रभुाख्यानयत्तदा। अहिंसासूनृतास्तेयब्रह्माकिंचनता तथा ॥ १५० ॥ रागद्वेषपरित्यागो धर्मध्यानं च सप्तमम् । शुल्कज्ञानमष्टमं च पुष्पैरात्मार्चनाच्छिवम् ॥ १५१ ॥ एवं च शिक्षयित्वा तं मार्दवातिशय स्थितम् । आपृच्छय व्यचरत्सङ्गहीनोऽन्यत्र पवित्रधीः ॥ १५२॥ श्रीसीमंधरतीर्थेशनिगोदाख्यानपूर्वतः। इन्द्रप्रश्नादिकं ज्ञेयमार्यरक्षितकक्षया ॥ १५३॥ श्रीजैनशासनक्षोणी(णी)समुद्धारादिकच्छपः । श्रीकालकप्रभुः प्रायान्यायाद्देवभुवं शमी ॥ १५४ ॥ श्रीमत्कालकसूरिसंयमनिधेर्वृत्तं प्रवृत्तं श्रुतात्
श्रुत्वात्मीयगुरोर्मुखादवितथख्यातप्रभावोदयम् । संदृब्धं मयकातमस्ततिहरं श्रेयःश्रिये जायताम्
श्रीसंघस्य पठन्तु तच्च विबुधा नन्द्याच्च कोटीः समाः ॥१५५॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रःसूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीकालकाख्यान श्रीप्रद्युम्नमुनींन्दुना विशदितः शृङ्गश्चतुर्थोऽभवत् ॥ १५६ ॥
उभयं ७३४ ॥ अक्षर ॥१५॥
१P-रप्यमून्. २ J & H omit सर्व before कषं ३ Pशुक्लध्यान. ४ P कंक्षया. ५ P-समद्वारादि. P-प्रायात्प्रायाद्देव भुवं. ६ P adds इति श्रीकालकाचार्यप्रबन्धः ग्रंथा १५७ अ. २३.