________________
४७
श्रीपादलिप्तप्रबन्धः ।
श्रीपादलिप्तप्रबन्धः । जयन्ति पादलिप्तस्य प्रभोश्चरणरेणवः । श्रियः संवनने वश्यचूर्ण तत्प्रणताङ्गिनाम् ॥१॥ गुणैकदेशमप्यस्य किमहं वर्णितुं क्षमः। जडस्तथापि तस्योक्तिर्लोकयुग्मोपकारिणी ॥२॥ विमृश्यैवं भणिष्यामि पूज्यैर्मस्तकहस्तितः । खण्डखण्डश्रुतं वृत्तं चित्रं शृणुत कौतुकात् ॥३॥ सरयूजाह्नवीवारिसेवाहेवाकिमानवा। अस्ति विस्तारकुशला कोशला नामतः पुरी ॥४॥ तत्रासीद्वास्तिकास्मीयापहस्तितरिपुवजः। विजयब्रह्म इत्याख्याविख्यातःक्षितिनायकः॥५॥ संफुल्लमल्लिकावल्लीकुसुमप्रोल्लसद्यशाः। फुल्लाख्यः फुल्ललक्ष्मीकः श्रेष्ठी श्रेष्ठगुणावनिः ॥६॥ रूपेणाप्रतिमानस्य प्रतिमाख्यातिवल्लभा । सुधा मुधाकृता यस्या गिरयागाद्रसातलम् ॥ ७॥ अपत्यीयितचित्तायास्तस्या हस्तनिरीक्षणम् । होराविद्यामहामन्त्रा वन्ध्यागर्भकराण्यपि ॥८॥ औषधानि प्रयुक्तानि क्षेत्रपद्रादिदेवताः। उपयाचितलौश्चाराद्वा आसंश्च निष्फलाः॥९॥ युग्मम् । तीर्थस्नानप्रयोगाश्च यथा कथनतः कृताः। अपत्यार्थमहोमोहः स्त्रीणां सौहत्यहजने ॥१०॥ अस्ति श्रीपार्श्वनाथस्य चैत्ये शासनदेवता । वैरोद्यानामविद्याया निर्विष्णा सा समाश्रयत् ॥ ११ ॥ कर्पूरमृगनाभ्यादिभोगैः संपूज्यतामसौ। उपवासैर्व्यधादष्टाह्निकामेकाग्रमानसा ॥१२॥ अष्टमेऽहनि तुष्टा सा प्रत्यक्षीभूय तां जगौ । वरं वृणु तया पुत्रो ययाचे कुलदीपकः ॥१३॥ अथो फणीन्द्रकान्तासावादिदेश सुते शृणु । पुरा नमिविनम्याख्यविद्याधरवरान्वये ॥ १४ ॥
१P-स्तथापि तद्भक्तिर्लो. २J & H-मास्तक. ३J & H-श्रीया P-ख्याविख्यातक्षि. ४ J & H-रूपेण प्रतिमानस्य । गिरायागादसातलात् ५J & H-अपत्ती यि. ६J & H-द्रादि. ७J & Homit अप...हः and give सौहृत्यवजने. ८ P-स्वस्ति for अस्ति ९P-वैरोद्यातामटाद्याया. १०P-भागैः.