________________
४८
प्रभावकचरिते आसीत्कालिकसूरिः श्रीश्रुताम्भोनिधिपारगः । गच्छे विद्याधराख्यस्यायनागहस्तिसूरयः॥१५॥ खेलादिलब्धिसम्पन्नाः सन्ति त्रिभुवनार्चिताः । पुत्रमिच्छसि चेत्तेषां पादशौचजलं पिबेः॥१६॥ त्रिभिर्विशेषकम् श्रुत्वेति चैत्यतःप्रातस्तेषामागादुपाश्रये । प्रविशन्ती च सापश्यत्साधुमेकं तटस्थितम् ॥ १७॥ करस्थप्रभुपादाब्जक्षालनोदकपात्रकम् । तत्पार्श्वे प्रार्थनापूर्व तत्पयः सापिबन्मुदा ॥१८॥ युग्मम् अथ तत्राग्रतो गत्वा नमश्चक्रे प्रभोः पदौ । धर्मलाभाशिषं दत्वा नमित्तं (त) चाहसहरुः॥ १९ ॥ अस्मत्तो दशभिर्हस्तै (र) दूरे पीतं त्वयोदकम् । दुशभियॊजनैरन्तरितो वर्धिष्यते सुतः ॥२०॥ यमुनापरतीरे च मथुरायां प्रभावभूः । भविष्यन्ति तथान्ये ते नवपुत्रा महाद्युतः ॥ २१ ॥ साहाथ प्रथमः पुत्रो भवतामर्पितो मया । अस्तु श्रीपूज्यपार्श्वस्थो दूरस्थस्यास्य को गुणः ॥ २२॥ श्रुत्वेत्याह प्रभुः सङ्घानंतोद्धारादिशूकरः। स भविष्यति ते पुत्रः सुत्रामसचिवो धिया ॥ २३ ॥ इत्यादाय प्रभोर्वाक्यं शकुनग्रन्थिबन्धिनी। गृहं ययौ गृहेशस्य तुष्टा वृत्तं न्यवेदयत् ॥ २४ ॥ गर्भोभूत्तहिनेऽमुष्या नागेन्द्रस्वप्नसूचितः । तदौचित्यकृतश्चास्या वृद्धः सार्ध मनोरथैः ॥ २५॥ दिनेषु परिपूर्णेषु सुतो जज्ञे सुलक्षणः । रूपेणातिस्मरः श्रीमांस्तेजसा चातिभानुमान् ॥ २६॥ वैरोद्यायास्ततः पूजां कृत्त्वा तत्पादयोः पुरः। न्यस्यातो गुरुपादान्ते मुक्तस्तेषां तथार्पितः ॥२७॥ वर्धतामस्मदायत्त इति प्रत्यर्पितः स तैः। प्रवर्धितोऽतिवात्सल्यात्तथा तगुरुगौरवात् ॥ २८॥ नागेन्द्राख्यां ददौ तस्मै फुल्ल उत्फुल्ललोचनः। आत्तो गुरुभिरागत्य सगर्भाष्टमवार्षिकः ॥ २९ ॥ तेद्गुरुभ्रातरः सन्ति संगमसिंहसूरयः।
आदेशं प्रददुस्तेषां प्रभवः शुभमायतौ ॥ ३०॥ १P-पिब १ JH-निमित्तं. २ P-यमुनापुर. ३ वृद्धिः ४ J & Hतद्गुरुः ५ P-संगमः सिंह.