________________
श्रीपादलिप्तप्रबन्धः।
४९ प्रव्रज्यां प्रददुस्तस्य शुभे लग्ने स्वरोदये । उपादानं गुरोर्हस्तं शिष्यस्य प्राभवे न तु ॥ ३१॥ गणिश्च मण्डनो नाम तदीयगणमण्डनः। आदिष्टः प्रभुभिस्तस्य शुश्रूषाध्यापनादिषु ॥ ३२॥ वैदग्ध्यातिशयादन्यपाठकानां पुरोपि यत् । ख्यातं तदपि गृह्णाति स्वपाठ्येषु तु का कथा ॥ ३३ ॥ लसल्लक्षणसाहित्यप्रमाणसमयादिभिः। शास्त्रैरनुपमो जज्ञे विशेशो वर्षमध्यतः॥३४॥ गुणैरुत्तमतां प्राप्य नृषु प्रथमरेखया। धूनन्नवनवाविश्वलक्षणेभ्योऽधिकस्ततः॥३५॥ अन्येधुरारनालाय प्रहितो गुरुभिस्तदा । विधिना तत्समादायोपाश्रये पुनराययौ ॥ ३६॥ तदीर्यापथिकीपूर्वमालोचयदनाकुलः।
गाथया कोविदश्रेणीहृदयोन्माथया ततः ॥ ३७॥ तथाहि-अंबं तं वछीए अपुष्पियं पुष्पदंतपंतीए ।
नेवमालिकं जियं नववहूइकुडएणमेदिन्नम् ॥ ३८॥ श्रुत्वेतिगुरुभिः प्रोक्तः शब्देन प्राकृतेन सः। पलित्तो इति शृङ्गाराग्निप्रदीप्ताभिधायिना ॥ ३९ ॥ स च व्यजिज्ञपत्पूज्यैः शिष्यः कर्णात्प्रसाद्यताम् । श्रुत्वेति प्रज्ञया तस्य तुतुषुर्गुरवो भृशम् ॥ ४०॥ विमृश्येत्यतिहल्लासपूरितास्ते तद्ग्रतः। पादलिप्तो भवान्व्योमयानसिद्ध्या विभूषितः॥४१॥ इत्यसौ दशमे वर्षे गुरुभिर्गुरुगौरवात् । प्रत्यष्ठाप्यत पट्टे स्वे कषपट्टे प्रभावताम् ॥४२॥ मथुरायां गुरुः प्रैषीदसंख्यातिशयाश्रयम् । तेजोविस्तारसंघोपकारहेतोस्तमन्यदा ॥४३॥ दिनानि कतिचित्तत्र स्थित्वासौ पाटलीपुरे । जगाम तत्र राजास्ति मुरण्डो नाम विश्रुतः ॥४४॥ केनापि तस्य चित्रायस्तत्र ग्रथितवृत्तकः । गूढवक्रमिलत्तंतुवयात्क्रांतावसानकः ॥४५॥ ढौकितः कन्दुकः पादलिप्तस्य च गुरोः पुरः।
राक्षा प्राहीयत प्रज्ञापरीक्षावीक्षणोद्यमात् ॥४६॥ युग्मम् । १JH-क्रमशो वर्ष. २P-च ३ P-समादायौ. ४ J_H गाथायाः कोवि योन्माथया. ५ P-नवसालिकजियं. ६. P-विज्ञपत. P-प्रभावनाम्, ७ P-नापितस्य, J H-ग्रंथित. ८ JH-तंतुभयाज्ञाता.