________________
प्रभावकचरिते
अथोत्पन्नधिया सूरिविलोल्योष्णोदकाप्लवैः । सिक्थकं निपुणं प्रेक्ष्य तत्तन्तुप्रान्तमाप सः॥४७॥ उन्मोच्य प्रहितो राक्षे तद्वद्धयासौ चमत्कृतः । प्रज्ञाविज्ञाततत्त्वाभिः कलाभिः को न गृह्यते ॥४८॥ तथा गङ्गातरोर्यष्टिः समाश्लक्ष्णा समर्पिता। तन्मूलाग्रपरिज्ञानहेतवे स्वामिना भुवः॥४९॥ तारयित्वा जले मूले गुरुत्त्वात्तन्निमजनात् । अग्रमूले परिज्ञायाचख्यौ राज्ञः पुरस्ततः ॥ ५० ॥ तथा समुद्कोऽनीक्ष्य सन्धिः सूरेः प्रदर्शितः। उष्णोदकात्समुद्धाट्य तच्चित्रं प्रकटीकृतम् ॥ ५१ ॥ श्रीपादलिप्ताचार्येण तन्तुग्रथिततुम्बकम् । पेशीकोशायितं वृत्तं प्रहितं राजपर्षदि ॥५२॥ उन्मोचितं न तत्तत्र केनापि मुमुचे ततः। तहुप्तं तेन मोच्येत नान्यरित्यतिभाषिभिः॥५३॥ भूपाहूतः स आगत्योजग्रन्थ च यतीश्वरः । मुरण्डनृपतिस्तत्राक्षिप्तश्चिन्तयते तदा ॥ ५४॥ बालाचार्योऽयमीक्षैः खेलनीयः कुहेतुभिः । दध्यावहमयं किंत्वधृष्यः केसरिवच्छिशुः॥ ५५ ॥ वयस्तेजसि नो हेतुरिति सत्यं पुरा वचः। को हि सिंहार्भकं सत्रेऽणुरूपमपि लंघयेत् ॥५६॥ शिरोवेदनयाक्रान्तः सोऽन्यदा भूपतिः प्रभुम् । व्यजिज्ञपत्प्रधानेभ्यः क्षुते नष्टे स्मृतीरवेः॥ ५७॥ तर्जनी प्रभुरप्येष त्रिः स्वजानावचालयत् ।
भूपतेर्वेदना शान्ता तस्य किं दुष्करं प्रभोः॥५८॥ तथाहि-जह जह पएसिणि जाणुयंमि पालित्त उं भमाडेइ ।
तह तह सिसिरवियणा पणस्सइ मुरण्डरायस्स ॥ ५९॥ मन्त्ररूपामिमां गाथां पठन्यस्य शिरः स्पृशेत् । शाम्येत वेदना तस्याद्यापि मूनोऽतिदुर्धरा ॥ ६०॥ स तत्कालोपकारेण हृतान्तःकरणो नृपः। सूरेर्वालस्य पादानां प्रणामेच्छूरवेरिव ॥ ६१ ॥ समाययौ ययौ श्रेष्ठेद्रागाहा(?) तदाश्रयम् । सकर्णः को न गृह्येत गुणैः सत्यैर्लघोरपि ॥ ६२ ॥ युग्मम् । १ P-ल्लाल्योष्णो दकोप्लवैः; सिक्तक. २J H-तंतुप्रैथित., पशीकोशाशायित. ३ P-यमीक्षौश्वखलनीयः त्वदृष्यः. ४ P-शरोवे. ५J H-श्रेष्ठो द्रागामृत्य.