________________
श्रीपादलिप्तप्रबन्धः। प्रभोरुपांतमासीनो रहः पप्रच्छ भूपतिः । भृत्याः कृत्यानि नः कुर्युवेतनस्यानुसारतः॥ ६३॥ तद्विनामी विनेयाश्च युष्माकं तु कथं विभोः । भिक्षकवृत्तिपात्राणां ते कार्यकरणोद्यताः॥६४ ॥ युग्मम् ॥ सूरयः प्राहुरस्माकं विना दानं सदोद्यताः। कार्याणि भूप कुर्वन्ति लोकद्वयहितेच्छया ॥६५॥ भूपः प्राह न मन्येऽहं द्रव्यस्वादे जनस्थितिः। निःस्वस्त्याज्यः पुमाल्लोकेऽरण्यं दग्धं मृगैरिव॥ ६६ ॥ अथाह सूरिीश त्वमृत्या बहुवृत्तयः। तादृगुक्तं न कुर्वन्ति यादृझे दानमन्तरा ॥ ६७ ॥ इहाथै प्रत्ययो भूप कौतुकावलोक्यताम्। दक्षः शुचिर्गुणी कश्चित्प्रतिष्ठा प्रापितः सदा ॥ ६८ ॥ ताम्बूलाभरणक्षौमैरात्मतुल्यः सदेक्षितः। विश्वासस्य परा भूमिर्मूर्त्यन्तरमिवापरम् ॥ ६९ ॥ आहूयतां पुमान्पृष्टः सौष्टवीकोपि भृत्यराट्। यथा प्रतीतिसम्पत्तिमद्वाक्यस्य भवेत्ततः॥७०॥ त्रिभिर्विशेषकम् क्षत्रा क्षत्रपतिस्तत्राहूतवान्प्राग्गुणान्वितम् । प्रधानमाजगामायं मूर्धन्यस्तकरद्वयः ॥ ७१ ॥ स प्रोवाच प्रसादं मे स्वामिन्नादेशतः कुरु। सुदुष्करतरेप्यर्थे भृत्यलेशे निजे मयि ॥ ७२॥ राजा प्राह सख्खे गङ्गा वहतीह कुतोमुखी। इत्युक्तेऽन्तःस्मितः सोपहासं चिन्तयति स्म सः॥७३॥ अहो बालर्षिसंसर्गाद्राज्ञः शैशवमागतम्। गङ्गाकुतोमुखी बालाङ्गनाख्यातमिदं वचः ॥ ७४ ॥ ततः प्रमाणमादेश इत्युक्त्वा स ययौ बहिः। ऐश्वर्यग्रहिलो राजा नाहमप्यस्मि तादृशः॥ ७५॥ फल्गुवाग्भिस्ततः स्वीयं सुखं परिहरामि किम् । ध्यात्वेति व्यसनी तत्र प्रायः प्रायाद्दरोदरे ॥ ७६ ॥ खेलनिर्वाह्य तत्रासौ चतस्रः पञ्च नाडिकाः। गत्वा स्वामिपुरः पूर्वामुखीत्युत्तरमाह सः॥ ७७॥ अपसप्यः प्रसर्पद्भिस्तद्वृत्तं भूपतेः पुरः। न्यवेद्यथ यतिस्वामी स्मितं कृत्वाभ्यधादिति ॥ ७८॥
भूपालचेष्टितं दृष्टं धनमानातिशायिनः । १ P-जनस्थितः. २ J क्षोदामेरात्मतुल्ये H क्षोदामेरात्मतुल्यः. ३JH न्यवेद्यत.