________________
प्रभावकचरिते
निजप्रसादवित्तस्यापरेषां तु कथापि का ॥ ७९ ॥ अद्यश्वीनविनेयस्याशिक्षितस्य व्यवस्थितिम् ।। पश्य नश्यन्मदस्नेहं चित्तान्तश्चित्रकारिणीम् ॥ ८० ॥ आगच्छाभिनवक्षुल्ल व्याहृते चेति सूरिभिः । इच्छामीति वदन् शीघ्रमुत्तस्थौ सरजोहृतिः ॥ ८१ ॥ विनयानम्रमौलिश्च मेदिनी प्रतिलेखयन् । पुर आगाहुरोर्जानू भुव्यास्ये न्यस्य पोतिकाम् ॥ ८२ ॥ प्रभोऽनुशास्तिमिच्छामीत्युक्ते तेनावदत्प्रभुः। गङ्गाकुतोमुखी वत्स वहत्याख्याहि निर्णयम् ॥ ८३॥ तदाचावश्यकीपूर्व निर्गच्छन्नाश्रयाबहिः । विन्यस्य कम्बलं स्कन्धे कृत्वा दण्डं करे निरैत् ॥ ८४ ॥ प्रश्नानुचिततां जानन् बालवृद्धयुवस्त्रियाम् । अपृच्छन्मध्यवयसं प्रवीणं पुरुषं ततः॥८५॥ गङ्गाकुतोमुखी पूर्वाभिमुखी प्रापितोत्तरः।। तेनेति त्रिःकृते प्रश्ने सर्वत्रासीत्समोत्तरः ॥ ८६ ॥ तथापि निश्चिकीर्षुः स स्वर्धनीजलसन्निधौ । प्रत्युपेक्ष्य ततो दण्डं करस्थितमवग्रकः॥ ८७॥ जलान्तरमुचत्तं च श्रोतसातिरयात्ततः। प्राग्वाहिते करे दण्डसहिते प्रत्ययं ययौ ॥ ८८॥ युग्मम् । आगत्याश्रयमत्रर्यापथिकीपूर्वकं ततः।
आलोचयद्यथावृत्तं प्रवृत्तश्च स्वकर्मणि ॥ ८९ ॥ उक्तंच श्रीजिनभद्रग(घ)णिक्षमाश्रमणभाष्यकारेण
निवपुच्छिएण भणिउ गुरुणा गङ्गा कुउमुही वहइ । संपाइय वंसी सो जह तह सव्वच्छ कायव्वम् ॥९०॥ प्राग्वच्चारैर्यथाख्याते सत्य एव निवेदिते । प्रतीतः प्राह भूपालस्त्वदृत्तं हि कथातिगम् ॥ ९१॥ इति प्रभुक्तैस्तै श्चित्रैः सर्वलोकोपकारकैः। नृपो बिभ्रच्चमत्कारं कालं यान्तं न बुध्यते ॥९२॥ अन्यदा मथुरायां स सूरिर्गत्वा महायशाः॥ श्रीसुपार्श्वजिनस्तूपेनमत् श्रीपार्श्वमञ्जसा ॥१३॥
ततोऽसौ लाटदेशांतश्चोङ्काराख्यपुरे प्रभुः। १P-प्रसादचित्त. २ P-नश्यन्मदस्येहं. ३ J & H सरजौहृति. ४ J H-करेतिचेत् ५ P-गंगाकुतोमुखीति प्रापितोत्तरः ६ J H-स्थिततदग्रकः ७ JH-प्रोगवायिते. ८ P-आलोचयथावृत्तं. ९ P-प्राग्वचारै १० JHप्रभुकृतैश्चित्र. ११ J_H-'देशीतश्चांका'