________________
श्रीपादलिप्तप्रबन्धः। आगतः स्वांगतान्यस्य तत्राधाद्भीमभूपतिः ॥९४ ॥ शरीरस्थस्य बाल्यस्य माहात्म्यं वितरन्निव । स क्रीडत्यन्यदा डिम्भैर्विजने विश्ववत्सलः ॥९५॥ भरण रमते यावत् श्रावकास्तावदाययुः। देशान्तरोत्तदाकुंठोत्कंठास्तद्वंदनोत्सुकाः ॥ ९६ ॥ कालो युगप्रधानस्य पादलिप्तप्रभोः कुतः। उपाश्रयोऽस्ति शिष्याभं पप्रच्छुश्च तमेव ते ॥ ९७॥ तत्रोत्पन्नमतिः सूरिर्दूरभ्रमणहेतुभिः। प्रेकटैस्तदभिज्ञानस्तेषामकथयत्तदा ॥९८॥ स्वयं पटींच प्रावृत्त्य संवृत्याकारमात्मनः। आचार्याः संत्युपाविशदृक्षः स क्षिप्रमुन्नते ॥ ९९ ॥ श्राद्धाश्च तावदाजग्मुः प्रणेमुरतिभक्तितः। क्रीडन् दृष्टः स एवायं तैरुपालक्षि दाक्ष्यतः॥ १००॥ विद्याश्रुतवयोवृद्धसदृशीं धर्मदेशनाम् । विधाय तत्पुरोऽवादीत् तद्विकल्पापलापकृत् ॥ १०१॥ अवकाशः शिशुत्वस्य दातव्यश्चिरसंगतैः। इति सत्यवचोभङ्गया जहृषुस्ते शिशुप्रभोः ॥ १०२॥ गते विहर्तुमन्येद्युः प्रौढसाधुकदम्बके । विजने स ययौ रथ्यां गच्छत्सु शकटेषु च ॥ १०३ ॥ कुर्वन् मर्कटकीक्रीडां दृष्टः पूर्ववदाश्रयम् । परप्रवादिभिर्दूरदेशेनैषामुदाहरत् ॥ १०४॥ चिरेणायान्ति यावत्ते सम्पन्नातिभ्रमश्रमाः। गुरुः सिंहासने तावत्सुष्वापासौ पटीवृतः ॥ १०५ ॥ ताम्रचूडः खरश्चके तैः प्रातःक्षणशंसकः । उत स्वरं ततोऽधासीत् सूरिस्तत्परिपन्थिनाम् ॥१०६॥ तेषां द्वारमपावृत्य तस्थौ सिंहासने प्रभुः। तस्य ते विस्मयस्मेरा ददृशुर्मूर्तिमद्भुताम् ॥ १०७ ॥
तर्कोक्तिभिर्जितास्ते च प्रश्नमेकं च गाथया। तथाहि-एतजिगीषवः सन्तो विदधुर्दुर्घटं तदा ॥ १०८ ॥
"पालित्तयक हेसुफुडं संयलं महिमण्डलं भमंतेण ।
१P-आगतस्वागत. २ JH-बालस्य...हरनिव. ३ P-क्रीडयत्य. ४ J_H-देशांतरात्तदा कुतोक्कंगस्तद्वदतोत्सुकः ॥ देशांतरात्तदाकूतोत्कण्ठास्तद्वंदनोत्सुकाः इति स्यात्. ५ J कालयुand P-कुलौ कलौ इति स्यात्. ६J H-प्रकटेस्तदभिज्ञायतै स्तेषा. ७J & H-पटी चेत्य. ८ P-आचार्यो सन्युपाविक्षसक्षिप्रमुन्नते. ९ P-हसि० १० P-सयलमहिम.