________________
प्रभावकचरिते
दिद्वो सुउवकच्छवि चंदणरससीयलो अग्गी ॥ १०९॥" सूरिः श्रीपादलिप्तोपि तत्क्षणं प्राह गाथया।
उत्तरं द्राग्विलम्बो हि प्रज्ञाबलवतां कुतः ॥ ११० ॥ सा च-अयसाभिउंग अभिदूमि यस्स पुरिसस्स सुद्धहिययस्स ।
होइवहन्तस्स फुडं चंदणरससीअलो अग्गी ॥ १११ ॥ इत्युत्तरेण ते सूरेनुंदमापुर्जिता अपि । पराजयोऽपि सत्पात्रैः कृतो महिमभूर्भवेत् ॥ ११२ ॥ ततः सङ्घन विज्ञप्ते सद्गुणेषु प्रमोदिना। शत्रुजयगिरौ यात्रां पादलिप्तप्रभुर्व्यधात् ॥ ११३ ॥ मानखेटपुरं प्राप्ताः कृष्णभूपालरक्षितम्। प्रभवः पादलिप्ताख्या राज्ञाभ्यर्यंत भक्तितः ॥ ११४ ॥ तत्र प्रांशुपुरात्प्राप्ताः श्रीरुद्रदेवसूरयः। ते चावबुद्धतत्वार्थाः श्रीयोनिप्राभृते श्रुते ॥ ११५॥ अन्येद्युर्निजशिष्याणां पुरस्तस्माच्च शास्त्रतः। व्याख्याता शफरोत्पत्तिः पापसन्तापसाधिका ॥ ११६ ॥ सा कैवयन कुड्यान्तरितेन प्रकटं श्रुता। अनावृष्टिस्तदा चासीत् विश्वलोकभयङ्करी ॥ ११७ ॥ मीनानुत्पत्तिरत्रासीत्तत्र श्रौतप्रयोगतः। मत्स्यान् कृत्वा बहूनेषोऽजीवयद्वन्धुमण्डलम् ॥ ११८ ॥ कदापि हर्षतस्तत्र प्रभूपकृतिरञ्जितः। आययौ धीवरो भक्त्या नत्वा च प्रोचिवानिति ॥ ११९ ॥ युष्मत्कथितयोगेनादानो मीनान् व्यधामहम् । खादित्वा तांश्च दुर्भिक्षे कुटुम्बं निरवाहयम् ॥ १२० ॥ श्रुत्वेति सूरयः पश्चादतप्यन्त कृतं हि किम् । यतो वधोपदेशेनास्माभिः कल्मषमर्जितम् ॥ १२१ ॥ जीवन् जीववधात्पापभयं बह्वजयिष्यति। तस्मात् किमपि तत्कार्य येनाधत्ते न स स्वयम् ॥ १२२॥ इति ध्यात्वोचिवान् सूरिनिष्पत्तौ रत्नसंततेः। प्रयोगं शृणु दारियं कदापि न भवेद्यथा ॥१२३॥ स च स्फुरति नो मांसाशनजीवविघातयोः । विधीयमानयोस्तत्वममू वर्जयसे यदि ॥ १२४ ॥ कथयामि तदा तत्ते श्रुत्वेत्याहेदमप्यहम् ।
जाने जीववधात्पापं कुटुम्बं तु न वर्त्तते ॥ १२५॥ १P-अग्री. २ J & H सचाह for साच. ३ P-हाइ वई 'अग्गी. ४ P-पांशुपुरात्प्रायुः ५ P-संपत्ति. ६ P-ततश्रौत. ७ H-योगे नदीनो मी. J योगेन दानो. ८J & H omit हि before किम्.