________________
श्रीपादलिप्तप्रबन्धः ।
.
५५
नाथ प्रसादतश्चित्ते विना पापं धनं भवेत्। सद्गतिः प्रेत्य तन्मे स्यात्प्रमाणं पूज्यवाक्ततः ॥ १२६॥ अतःपरं गृहे गोत्रे न मे पिशितभक्षणम् ।
इत्युक्ते रत्नयोगस्तैरुक्तः सोभूञ्च धार्मिकः ॥१२७॥ तथा केचिदिति वदन्ति
शिक्षितः सिंहयोगं च चके तं तेन भक्षितः ।
यतोऽल्पदोषतः पुण्यं बहु किं न समय॑ते ॥१२८ ॥ तथा-विलासनगरे पूर्व प्रजापतिरभूत्ततः।
ततः श्रमणसिंहाख्याः सूरयश्च समाययुः॥१२९ ॥ तानाहूय नृपः प्राह चित्रं किमपि दर्यताम् । सूरयः प्राहुरर्कस्य कोपि वेत्तीह संक्रमम् ॥१३०॥ भूपतिः सिद्धदेवज्ञानाहूय वदतिस्म सः। रविसंक्रातिसमयमाख्यातास्मत्पुरःसरम् ॥ १३१ ।। नाडिकापलसङ्खयाभिस्तं स्फुटं वीक्ष्य तेऽब्रुवन् । आचार्यः स्माहुरेकोऽस्माससूचिर्नः समर्प्यताम् ॥ १३२॥ सांवत्सरस्य च ततो नृपस्तदकरोदरम् । सूरिस्तं समयं सूक्ष्मं ज्ञात्वा (स्म)(श्म)न्यक्षिपच्च ताम्॥१३३॥ उवाच सूचिकामेनां मौहूतिकविनिष्कषः। संक्रातिसमये यस्मात्सर्व जलमयं भवेत् ॥ १३४॥ गणकोऽपि ततः प्राह ज्ञाने मे नियतिर्दशा। प्राप्तं तत्सूरिविज्ञानं दृष्टा भूपो विसिमिये ॥१३५॥ एकदा सूरयो राक्षा पृष्टा वृष्टिविधौ पुनः। विचिन्त्य कथयिष्यामः प्रोच्येति स्वाश्रये ययुः ॥ १३६॥ तैर्देवेन्द्राभिधः शिष्यः प्रेक्ष्यत क्षितिपाग्रतः। कथ्यं किंचिद्विसंवादि यथासौ स्यादनादरः॥ १३७॥ इति तच्छिक्षितः प्राज्ञो ययौ तत्र जगौ च सः। उत्तरस्या(स्यां) दिशो(शि) वृष्टिरमुतः पञ्चमेऽहनि॥ १३८ ॥ संजज्ञे वर्षणं पूर्वदिशस्त(शित)त्र दिने स्फुटम् । दिग्विसंवादतो राजा किंचिन्मन्दादरोऽभवत् ॥ १३९ ॥ कर्मबन्धनिषेधाय तदुपेत्य कृतं च तैः।
अभीक्ष्णं राजकार्याणां कथनं कल्मषावहम् ॥१४॥ १J & H-श्चेति. २ J & H-ससृज्यते. ३ P-आचार्यास्माहरेकोश्मासमूचिर्नः ॥ 'आचार्याः स्माहुरेकोमा ससूचिर्नः' इति स्यातू. ४ H & J -ज्ञात्वारमन्य. ५J & H-सचिका. P-विनिःकष, सर्वे. ६ P-ज्ञानं० मेने यती-शां J& H विस्मिये,७ J & H-देवेंद्रोभिधः...प्रेक्ष० ८ H & P -उत्तरस्या दिशौ and 'उत्तरस्यां दिशो'