________________
५६
प्रभावकचरिते मानखेटपुरं प्रापुस्तेऽथ कालेन केनचित् । निमित्तग्रन्थनिष्णाता राज्ञां ज्ञाताः कलावशात् ॥ १४१ ॥
अथार्यखपटाः सन्ति विद्याप्राभृतसंभृताः। तद्यथा-तद्वत्तमिह जैनेन्द्रमतोल्लासि प्रतन्यते ॥ १४२ ॥
विध्योदधिकृता घाटा लाटदेशललाटिका। पुरं श्रीभृगुकच्छाख्यमस्ति रेवापवित्रितम् ॥ १४३ ॥ यानपात्रं भवाम्भोधौ यत्र श्रीमुनिसुव्रतः। पातकातङ्कतः पातिवर्भुवोभूर्भुवं जनम् ॥ १४४ ॥ तत्रास्ति बलमित्राख्यो राजाबलभिदासमः। कालिकाचार्यजामेयः स्थेयः श्रेयधियां निधेः॥ १४५ ॥ भैवाध्वनीनभव्यानां संति विश्रामभूमयः। तत्रार्यखपटा नाम सूरयो विद्यतो(यो)दिताः॥१४६॥ तेषां च भागिनयोऽस्ति विनेयो भवनाभिधाः। कर्णश्रुत्याप्यसौ प्राज्ञो विद्यां जग्राह सर्वतः ॥ १४७॥ बौद्धान्वादे पराजित्य यैस्तीर्थ संघसाक्षिकम् । तद्रहध्वान्ततो भानुप्रतिरूपैरमोच्यत ॥ १४८ ॥ तदा च सौगताचार्य एको बहुकराभिधः। गुडशस्त्रपुरात्प्राप्तो जिगीषु नशासनम् ॥ १४९ ॥ गुडपिण्डैः पुरा तत्र शत्रुसैन्यमभज्यत। गुडशस्त्रमिति ख्यातिरतोऽस्याजनि विश्रुता ॥ १५० ॥ सर्वानित्यप्रवादी स चतुरङ्गसभापुरः। जैनाचार्यस्य शिष्येण जितः स्याद्वादवादिना ॥ १५१ ॥ कांदिशीकस्ततो मन्युपुरपूरितमानसः। कोपादनशनं कृत्वा मृत्वा यक्षो बभूव सः ॥ १५२॥ निजस्थानेऽवतीर्यासौ सकोपः श्वेतभिक्षुषु। अवजानाति तांस्तेषामुपसर्गान् ददाति च ॥ १५३॥ तत्पुरस्थेन सङ्घन तदार्यखपटप्रभुः। तत्र व्रतिद्वयं प्रेष्य ज्ञापितस्तत्पराभवम् ॥ १५४॥ ऐषा कपलिका वत्स नोन्मोच्या कौतुकादपि।। कदापि शिक्षयित्वेति जामेयमचलत्ततः ॥ १५५ ॥
पुरे तत्र गतस्तस्य यक्षस्यायतनेऽवसत् । १J & H-विंध्याधिकृताघाट....लाटिकाः । २J & H-भूर्भुव भवं ॥ 'स्वर्भुवर्भूभवं' ३ J & H-श्रेयःश्रियां निधिः । ४ J H-omit भवाध्व ete ५J & H-तेषां च भागिनेयो भुवनाभिधः ६ P-repeats विनेयोस्ति, ७ विश्रुतम्. ८ P-निजस्थानवितीर्या० and मुपसर्गान्धाति च.९P-omits it